________________
ऋषिभाषितटीका
द्वे मरणेऽस्मिल्लोक एवमाख्यायेते, तद् यथा सुखमृतं चैव दुःखमृतं चैव । -अत्र विज्ञप्ति व्यख्यानं ब्रवीमि । इमस्य खलु ममीकारिणोऽसमाहितलेशस्यासमाहितमनोवृत्तिकस्य गण्ड इति ग्रन्थ्यर्थे तेन परिघातितस्य बाधितस्य बन्धनपरिघातस्येति पाठोऽशङ्कनीय एव गण्डबन्धनप्रतिघातं करिष्यामि । अलं पुरो-मतेन दुःखं मरणमिति । तस्मात् तं पूर्वोक्तं कृत्वा ज्ञान-दर्शन-चारित्राणि प्रतिसेविष्ये । ज्ञानेन ज्ञात्वा दर्शनेन दृष्ट्वा संयमेन संयम्य तपसाऽष्टविधकर्मरजोमलं विधूय विशोध्यानादिकमनवदनं दीर्घाध्वानं चतुरन्तसंसारकान्तारं व्यतिपत्य शिवमित्यादिविशेषितं सिद्धिगतिनामधेयं स्थान संप्राप्तोऽनागताध्वानं शाश्वतं कालं स्थास्यामोति प्रतिबोधितस्य कस्यचिदध्यवसायः ॥ रामपुत्रीयाध्ययनम् ।
२४
सर्वमिदं पुरा भव्य भवितव्यावेक्षम् , इदानीं पुनरभव्यं भवितव्यानवेक्षं भवति । ध्यवन्ते खलु भो नैरयिका नैरयिकत्वात् तिर्यग्योनस्तिर्यग्योनित्वान्मनुष्या मनुष्यत्वाद् देवा देवत्वाद, अनुपरिवर्तन्ते जीवाश्चतुरन्तं संसारकान्तारं कर्मानुगामिनः । तथाऽपि मम जीव इहलोके सुखोत्पादकः, परलोके दुःखोत्पादकोऽनिजोऽध्रुवोऽनित्यः, अणितिए अणिच्चे त्ति पदे समव्युत्पत्ती, सजति यावन्मुह्यत्यध्युपपद्यते विनिघातमापद्यते । इमां च पुनः शटन-पतन-विकिरण-विध्वंसनधर्मामनेकयोगक्षेमसमायुक्तां जीवस्यातीया संसारनिर्व्यष्टिं करोति लोकप्रपञ्चं सेवते । इमां संसारनिर्व्यष्टिं कृत्वा संसारकान्तारमनुपरिवर्तते । तं त्वनुवृत्य संवेग-निर्वेदौ गत इति अर्थपूरणार्थमध्याहार्य, परं तु शिवमित्यादि यावत् चिट्ठिस्सामि त्ति अपास्यं मिथ्येह निवेशितत्वात् । तस्मादध्रुवमशाश्वतमिदं संसारे सर्वजीवानां संसृतिकारणमिति ज्ञात्वा ज्ञान-दर्शन-चारित्राणि सेविण्ये तानि सेवित्वा संसारकान्तारं व्यतिपत्य शिवं स्थानमभ्युपगतः स्थास्यामीत्यत्र निश्चयः ।
वाडधाणे त्ति पदत्यार्थो न ज्ञायते (१) (२) । वटि त्ति वृत्तिः परिवर्तः, शीघ्रया तया समायुक्ता रथचके यथाऽराः स्फटन्तो वा भङ्गुरा वल्लिच्छेदास्तथा शरीरिणः पुरुषस्य सुहदुक्खे त्ति द्विवचनं संस्कृतकल्पम् (३)॥ संसारे सर्वजीवानां गृद्धिः संपरिवर्तत उदुम्बरतरूणां प्रसवदोहदो यथा व्यसनोत्सवकारणं स्यङ्गचेष्टादीनां हेतुः (४)। वह्निमित्यादि सद्यो मेधमिव चिन्तयेद् अकाण्ड आगमन-गमनशीलम् (५)। (६) (७) (८) (९) (१०)। वत्तेयणिच्चत त्ति वर्तते वर्तेत वाऽनित्यता, षोडशेपि