________________
ऋषिभाषितटीका
संयम-प्राणवृत्ति-धर्मचिन्तेत्येतेषामर्थाय । अपरं च यथा नामैको जतुकारकोऽङ्गारेष्वग्निकार्य निसृजेदेष मेऽग्निकायो न विक्षायिष्यति जतुं च तापयिष्यामीति . चिन्तयन्ने तयोपमया इत्यादि पूर्ववत् । अत्यच्च यथा नामैको इषुकारकस्तुषेष्वग्निकार्य शेषं तदेव, केवलमिषु तापयिष्यामीति । अम्बटाध्ययनस्य यौगन्धरायणाध्ययनमिति युक्ततरं नाम भवेत् ।
१४६
२६
कतरो धर्मः प्रज्ञप्तः ? धर्मं न सम्यग् जानीथेति भावः । हे आयुष्मन्तः सर्व धर्मं यदि वा हे सर्वे आयुष्मन्तो धर्मे मम मत्तो वा शृणुत ! केनार्थेन ब्राह्मणवर्णाभा न तु ब्राह्मणाः सन्तो माहणत्ति मा हन्तेति श्लेषाद् युद्धं शिक्षन्ते हिंसां प्रकुर्वन्ति (१) ॥ शस्त्रजीविनो हि यागे भवन्ति ब्राह्मणाः, लौकिक व्यापारेषु तु राजानः क्षत्रिया वणिजो वैश्याश्च, स्वधामानि स्वगृहाणि स्वात्मनो वा पिनिदधति निरुन्धन्ति विवेकात् ब्रह्मपालनाच्चेति तृतीय श्लोकस्योत्तरार्धं द्वितीयस्य पूर्वार्धन सम्बन्धनीयम् (२.३) ॥ अन्धेन युगेनाचक्षुष्मता वाहयुग्मेन विपर्यस्त उत्तराधरस्मिन् राजरथमारूढ इव अडणीए त्ति मार्गे युद्धमारभते, न तु युद्धभूमौ सोऽब्राह्मणो यद् यद्धिसनकर्म प्रकरोति तत् सर्वं सर्वथा हतबुद्धेरिव निरर्थकमिति भावः (२.३) || यथार्थनामा ब्राह्मणो न धन्वो न रथी न शस्त्रपाणिः स्यान्न मृषा ब्रूयान्न चौर्यं कुर्यान्न मैथुनं गच्छेन्न परिग्रहं गृह्णीयात् स्यात् तु नियुक्त - नामाज्ञापितानां दशानामपि धर्माङ्गानां ध्यानाध्ययनपरायणः ( ४. ५ ) ॥ गुप्तैः सर्वेन्द्रियैः सत्यप्रेक्षी स्याच्छीलप्रेक्षी च सप्तस्वपि शीलाङ्गेषु नियुक्तेषु (६) ।। षड्जीनिकायहितः सर्वसत्त्वदयापरः स ब्राह्मण इति वक्तव्यो यस्याऽऽत्मा विशुद्धयति (७) || दिव्यं स कृषि कृषेन्नार्पयेन्न तां मुञ्चेत् । - आत्मा क्षेत्रं तपो बीजं संयमो युगलाङ्गले ध्यानं च फालो निशितः संयमश्च दृढं बीजमिति पादः संदिग्धपाठः पौनरुक्तचाच्छन्दसोऽशुद्धत्वाच्च ( ८ ) ।। कूटेसु वञ्चकेषु पुरुषेष्वकूटत्वं सरलत्वमङ्गीकरोति, अस्मिंस्तु पादे कृष्युपमा न दृश्यते, विनयो नियमनमिव स्थितः, तितिक्षा च हलेषा, दया- गुप्ती च प्रग्रहौ (९) ॥ सम्यक्त्वं गोच्छणवो त्ति अज्ञातार्थः। समितिस्तु शमिला, धृति-योक्त्र - सुसम्बद्धास्ते ये सर्वज्ञवचने रताः (१०) पञ्चैवेन्द्रियाणि तु क्षान्तानि दान्तानि निर्जितानि च यानि ब्राह्मणेषु तानि गोरूफणि गम्भीरं कृषि कृषन्ति (११) ॥ तपस्तस्य निर्व्याजस्य ब्राह्मणस्यावन्ध्यं बीजं, अहिंसा परमं निधनं गोत्रं, व्यवसायस्तस्य धनं सङ्ग्रहः संयमो युक्तौ बलिवर्दो
ܙ