________________
ऋषिभाषितटीका
१५७ (१२) ॥ धृतिर्बलं वसुधैका, श्रद्धा च निश्चला मेथिधुरोऽवष्टम्भः, भावना तु तस्य वृतिः, ईर्या सुसंवृतं द्वारम् (१३) ॥ कषायास्तस्य मर्दनं, कीर्तिवादश्च तत्क्षमा, निर्जरा तु ईषां लुनामि, एवं दुःखानां निष्कृतिर्भविष्यतीति तदभिप्रायः (१४)। एतां कृषि कृष्ट्वा सर्वसत्त्वदयावहां ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वाऽपि विशुद्धयति (१५) ॥ मातङ्गीयमध्ययनम् ।
___ साधु साधोः साधु वा सुचरितमव्याहताबाधिता श्रमणसम्पच्छ्रमणैः सह संवासः । न चिरं लौकिकजनेन संवसेन्मुनिः, संवासेन हि स्नेहो वर्धते । अनित्यचारिणो भिक्षोः कर्मणो हेतोरात्मार्थो दुःखायते दुःखमापद्यते (१)॥ स्नेहबन्धनं प्रजहाय ध्यानाध्ययनपरायणो भवति । निहितेन वशीकृतेन सदापि चेतसा निर्वाणाय मतिं संदध्यात् (२) । यो भिक्षुः परेण सख्यमागतस्तस्य कर्णसुख वचनं ब्रूयात् सोऽनुप्रियभाषकश्चाटुकारः खलु मुग्ध आत्मार्थे हीयते नियमात् (३)॥ यो लक्षण-स्वप्न-प्रहेलिकाः कुतूहलादाख्याति, तस्य नरो जनो दानानि प्रयोजयेत् , तत् तादृशं करणं श्रामण्यान्महदन्तरं भवेत् विपरीतं भवेदित्यर्थः (४) । चेल त्ति चेटको दासो, यश्चेटकोपनयनेषु आवाहविवाहेषु वधूवरेषु च पार्थिवानां युद्धेषु चात्मानं योजयति तान्युपतिष्ठति, यो वा जीवनहेतोरात्मनः पूजनाथै किश्चिदिहलोकसुखम् इहलोकस्य मनोज्ञं प्रयुनक्ति प्रकरोत्यर्थिविषयेषु प्रदक्षिणः, उभयेषां तादृशं करणं श्रामण्यस्य विपरीतम् (५. ६ ) ॥ व्यपगतकुशलस्तु संछिन्नस्रोताः शोको वा प्रेम्णा द्वेषेण च विप्रमुक्तः प्रियाप्रियसहोऽकिञ्चनश्चात्मार्थ न जह्याद् धर्मजीवो (७) ॥ वारत्रकाध्ययनम् ।
- २८ छिन्नस्रोतसो निरुद्धास्वान् भृशं कुरुत सर्वान् कामान् सर्वशः । कामा मनुष्याणां रोगा भवन्ति, कामा दुर्गतिवर्धनाः (१) । नासेवेत मुनिर्गुद्धिमेकान्तमनुपश्यन् । अकामाः पुनः कामान् कामयमाना दुर्गतिं यान्ति (२)। ये कामेषु लुभ्यन्ति तेषां त्रिविधं जगत् तुच्छमिव भवति कामेष्वध्युपपन्ना बहवो जीवाः क्लियन्ति (३) । (४) (५) (६) (७) (८) (९) (१०) (११) (१२) (१३) (१४) (१५) (१६) (१७) (१८) (१९) (२०) (२१) । अञ्जनस्य कज्जलस्य क्षयं वल्मीकस्य च सश्चयं मधुनश्चाहारं चिरकालीनं दृष्ट्वा पुरषस्य संयम उद्यमो वरः श्रेयान् भवेन् , न तु कामः (२२) ॥ उच्चावचं गोत्रमधिकृत्य विकल्प