Book Title: Ghantakarna Pratishtha Vidhi_
Author(s): Vardhamansuri
Publisher: Vardhamansuri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
घण्टाकर्ण प्रतिष्ठाविधिः
सप्तपीठ
| पूजनात्मको
विधिः
॥ २८॥
Decemveereotecoes
॥ सप्तपीठ-पूजनात्मको विधिः ॥ जिनार्चनविधि लघुस्नात्रविधिं च विधाय तदनन्तरं वेदिकोपरि चन्दनस्वस्तिकं विधाय ततः सपादरूप्यक संस्थाप्य तदुपरि घण्टाकर्ण मूर्ति स्थापयेत् । तत्संमुखं धूपदोपं कृखाऽजलिबद्धप्रणामपूर्वकं मन्त्रं पठेत्
"ॐ भूर्भुवः स्वः घण्टाकर्ण महावीर ! अत्र आगच्छ आगच्छ, तिष्ठ तिष्ठ स्वाहा” त्रिकृतः पुष्पाञ्जलि समर्पयेत् । ततः “ॐ घण्टाकर्णो महावीरः" इत्यादि त्रिकृत्वः घण्टाकर्णमन्त्रं पठेत् । तद्यथा
ॐ घण्टाकर्णो महावीरः, सर्वव्याधिविनाशकः । विस्फोटकभये प्राप्ते, रक्ष रक्ष महाबल ॥१॥ यत्र खं तिष्ठसे देव, लिखितोऽक्षरपंक्तिभिः । रोगास्तत्र प्रणश्यन्ति, वातपित्तकफोद्भवाः ॥२॥ तत्र राजभयं नास्ति, यान्ति कर्गेजपाः क्षयम् । शाकिनी-भूत-वेताल-राक्षसाः प्रभवन्ति न ॥३॥ नाकाले मरणं तस्य, न च सर्पण दश्यते । अग्निचौरभयं नास्ति, ही घण्टाकर्ण नमोऽस्तु ते ॥४॥
ठः ठः ठः स्वाहा ॥ ततः गोघृतं करे गृहीत्वा इदं श्लोकं पठेत्नवनीतसमुत्पन्न, सर्वसंतोषकारणम् । घृतं मया समानीतं, विलेपं प्रतिगृह्यताम् ॥१॥ 'ॐ भूर्भुवः स्वः घण्टाकण-महावीरं विलेपनं समर्पयामि'
DORCpCOMICRORDU
॥ २८॥
For Private and Personal Use Only

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64