Book Title: Ghantakarna Pratishtha Vidhi_
Author(s): Vardhamansuri
Publisher: Vardhamansuri

View full book text
Previous | Next

Page 29
________________ Shri Mahavir Jain Aradhana Kendra घण्टाकर्ण प्रतिष्ठाविधिः ।। २९ ।। www.kobatirth.org इदं मन्त्रं पठिखा घण्टाकर्णमूर्ति घृतेन विलेपयेत् । तदनन्तरं मदनफल- ऋद्धिदृद्धियुतं कंकणं बघ्नीत । ततः घण्टाकर्ण मूर्तिसंमुखं काष्ठमयानि सप्तपीठानि न्यसेत् । (१) तत्र प्रथमपीठे - अष्टकम् अष्टकम् कृत्वा चतुःषष्ठियोगिनीः स्थापयेत् नामाक्षरैस्तिलकैर्वा । (२) द्वितीयपीठे - प्रथमं द्विः, ततः दशकं दशकं कृत्वा द्विपञ्चाशद् वीरान् स्थापयेत् । (३) तृतीयपीठे - चतुष्कं चतुष्कं कृत्वा षोडशविद्यादेवीः स्थापयेत् । चतुष्कं चतुष्कं कृत्वा अष्टभैरवान् स्थापयेत् । (४) चतुर्थपीठे - (५) पंचमपीठे - नवग्रहान् यथाक्रमं स्थापयेत् । (६) पष्ठपीठे - दिक्क्रमेण दिक्पालान् स्थापयेत् । (७) सप्तमपीठे - गणपति- कार्तिकेय - क्षेत्रपाल - पुरदेवता- चतुर्णिकायदेवान् स्थापयेत् । प्रथमपीठे – चतुःषष्ठियोगिनीपूजनम् । तथाहि - प्रथमं पुष्पाञ्जलिं करे गृहीत्वा वृत्तं पठेत्चतुःषष्ठिः समाख्याता, योगिन्यः कामरूपिका । पूजिताः प्रतिपूज्यन्ते, भवेयुर्वरदाः सदा ॥ १ ॥ * अमुं श्लोकं पठित्वा योगिनीभिरधिष्ठिते क्षेत्रे पट्टकादिषु नामानि टिक्कानि वा विन्यस्य नामोचारणपूर्व्यं गन्धाद्यैः पूजयित्वा नन्दिप्रतिष्ठादिकार्याण्याचार्यः कुर्यात् । इति विधिप्रपायाम् । Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only XXX सप्तपीठ पूजनात्मको विधिः ॥ २९ ॥

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64