Book Title: Gadyasangraha
Author(s): Badrinath Shukla, Jayant Mishra
Publisher: Sahitya Academy

View full book text
Previous | Next

Page 172
________________ 152 गद्यसंग्रहः स्यात्? न हि अविद्यमानानां बन्ध्यासूनुसंस्काराणां संसरणं दृष्टम्। तस्मात् संसारसद्भावात् विद्यत एव भावानां स्वभाव इति। उच्यते। स्याद्भावानां स्वभावः, यदि संसार एव भवेत्। न त्वस्ति। इह यदि संसारः स्यात्, स नियतं संस्काराणां वा भवेत् सत्त्वस्य वा? किं चात:? उभयथा च दोष इत्याह संस्काराः संसरन्ति चेन्न नित्याः संसरन्ति ते / संसरन्ति च नानित्याः सत्त्वेऽप्येष समः क्रमः // 1 // तत्र यदि संस्काराः संसरन्तीति परिकल्प्यते, किं ते नित्याः संसरन्ति उत अनित्या:? अत्र न नित्याः संसरन्ति निष्क्रियत्वात्, अनित्यानां च घटादीनां सक्रियत्वोपलम्भात्। अथानित्याः, ये हि अक्रियाः, ते उत्पादसमनन्तरमेव विनष्टाः। ये च विनष्टाः, कुतस्तेषामविद्यमानत्वाद् बन्ध्यासूनुसंस्काराणामिव क्वचिद् गमनम्? इत्येवमनित्यानामपि नास्ति संसारः। सत्यं संस्कारा न संसरन्ति उत्पत्तिविधुरत्वात्, किं तर्हि सत्त्वः संसरतीति। उच्यते। सत्त्वेऽप्येष समः क्रमः। सत्त्वः संसरतीत्युच्यमाने किमसौ नित्यः संसरति, उत अनित्यः, इति विचार्यमाणे य एव संस्काराणां संसरणानुपपत्तिक्रमः, स समत्वात्सत्त्वेऽपि समो निपतति। तस्मात्सत्त्वोऽपि न संसरति। नैव हि सत्त्वसंस्काराणां संसारानुपपत्तिक्रमः समो भवितुमर्हति, यस्मादिह संस्काराणां नित्यानित्यभूतानां संसरणं नास्तीत्युक्तम्। न चैवमात्मा नित्यानित्यभूतः। तस्य हि स्कन्धेभ्यस्तत्त्वान्यत्वावक्तव्यतावत् नित्यत्वेनानित्यत्वेनाप्यवक्तव्यता व्यवस्थाप्यते। तस्मादात्मैव संसरतीति न चोक्तदोषप्रसङ्ग इति। उच्यते - पुद्गलः संसरति चेत्स्कन्धायतनधातुषु / पञ्चधा मृग्यमाणोऽसौ नास्ति कः संसरिष्यति // 2 // यदि पुद्गलो नाम कश्चित् स्यात्, स संसरेत्। न त्वस्ति। यस्मात् स्कन्धायतनधातुषु पञ्चधा मृग्यमाणो नास्ति। कथं कृत्वा? इन्धनं पुनरग्निर्न नाग्निरन्यत्र चेन्धनात् / नाग्निरिन्धनवान्नानाविन्धनानि न तेषु सः॥ (मध्यमकशास्त्र-१०/१४) / अग्नीन्धनाभ्यां व्याख्यात आत्मोपादनयोः क्रमः // (मध्यमकशास्त्र-१०/१५) //

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222