Book Title: Gadyasangraha
Author(s): Badrinath Shukla, Jayant Mishra
Publisher: Sahitya Academy

View full book text
Previous | Next

Page 215
________________ तत्त्वोपप्लवग्रन्थात् 195 किंच, अपौरुषेयत्वेन कर्तृदोषापगमः कृतः, श्रोतृदोषास्तु केनापनीयते। तथा हि-अर्थप्रतिपत्तौ तानपेक्ष्य विपरीतां प्रतिपत्तिमभिनिवर्तयिष्यति। ततश्च नित्यानामपि कर्तृकर्मणां दुष्टसहकारिकारणानुवेधेन विपर्ययादिज्ञानहेतुत्वमुपपद्यते न वाक्यानां प्रमाणप्रतिलम्भः। यदप्युक्तम्-'देशान्तरादावबाध्यमानत्वात् प्रमाणं चोदनाजनिता बुद्धिः'तदयुक्तम्, स्मृतेर्बाधारहितत्वेऽपि अप्रमाणत्वात्। किंच, बाधाशब्देन विपरीतविज्ञानमपदिश्यते, तच्च नोत्पद्यते-किं चोदनाजनितविज्ञानस्य यथार्थत्वेन उत तदुत्पादककारणवैकल्येन इति सन्दिह्यते। अपि च, बाधारहितत्वेऽप्यप्रमाण्यं दृष्टं-बाधकविज्ञानोत्पत्तेः पूर्वम्। बाधाऽप्युपजायमाना कालविकल्पेन उपजायते क्वचिदर्धमासेन क्वचिन्मासव्यवधानेन क्वचिच्च अब्दद्वयत्रयव्यवधानेन, अन्यत्र तु कारकवैकल्यान्नैव संपत्स्यते। न चैतावता प्रमाणं, चोदनाजनिता बुद्धिः।। __किंच, बाधारहितत्वमपि किम्-अशेषपुरुषापेक्षया कतिपयपुरुषापेक्षया वा? यद्यशेषपुरुषापेक्षया; तदावगन्तुं न शक्यते, परचित्तवृत्तीनां दुरन्वयत्वात्। अथ कतिपयपुरुषापेक्षया बाधारहितत्वम्; तदाऽनैकान्तिको हेतु:-यथा असत्योदके जातोदकबुद्धिः तस्माद्देशात् देशान्तरं यदा प्रयाति तत्रैव दशार्धतामुपयाति, न च तस्य बाधकं विज्ञानमुत्पन्नम्। किमेतावता तत् प्रमाणं भवतु? अथवा चोदनाजनितविज्ञानस्य निर्विषयत्वमेव भ्रान्तत्वम्, चोदनाजनितविज्ञानसमानकालीनकर्त्तव्यतारूपार्थस्याऽसंभवात्। संभवे वा चोदनावचसो वैकल्यम, वितानक्रियाविलोपः। अथ न विद्यते कर्त्तव्यतारूपोऽर्थः, कथं चोदनावचनोद्भूतं विज्ञानं न मिथ्या? अन्यथा केशोण्डुकसंविदो मिथ्यात्वं न भवेत्। अथ तस्या (:) प्रतीयमानार्थाऽसंभवेन मिथ्यात्वम्; तदिहापि तदेवास्तु। अथ चोदनाजनितविज्ञानार्थस्य पुनः सद्भावो भवति तेन तस्य यथार्थत्वम्। न तु केशोण्डुकविज्ञानस्य कदाचिदपि सद्भावोऽस्ति। सोऽयं विषभक्षणेन परं प्रत्याययति तपस्वी। चोदनार्थस्य पश्चाद्भवनं तद्विज्ञानानुपयोगि, तस्मिन् काले ज्ञानस्य अस्तमित्वात्, विज्ञानकाले च अर्थस्य(स्या)संभवात्। अथवा, इयमेव बाधा यदुत असंभाव्यमानार्थस्य प्रतिपादकत्वं यथा तन्तुतुरि-कारकोपनिपाते सति वस्त्रादिकार्यमुपजायमानं दृष्टम्। पुनः पटार्थिने

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222