Book Title: Dharmapariksha
Author(s): Amitgati Acharya, Balchandra Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 375
________________ ३५४ पाश्वंकीतिविरचिता व्याधयः। मधुबिन्दवः सुखमिति । यथैतत्सुखं तथा संसारिजीवस्येति । तन्निरूपणानन्तरं मनोवेगेन पृष्टो भगवानाह। पवनवेगधर्मग्रहणकारणम् । पाटलिपुत्रे पुरे परपुराणप्रतिव्यूहवेषेण गत्वा तत्पुराणासारदर्शनं कथितं भगवता। श्रवणानन्तरं हृष्टो मनोवेगः । तं प्रणम्य स्वपुरं गच्छन् सन् सुखमागच्छता पवनवेगेन दृष्टः । तदनु है मित्र, मां विहाय क्व गतोऽसि । सर्वत्रावलोकितो ऽसि । दर्शनाभावे ऽत्राहमागतः। इति भणिते मनोवेगेनोक्तम् । भरतस्यानजिनालयान् पूजयितुं गतः। पूजयित्वा गमनसमये बहुशिवालयविष्णुगृहब्रह्मशालाद्यलंकृतं, एकदण्डित्रिदण्डिहंसपरमहंसशैवपाशुपतभौतिकादिलिङ्गिप्रचुरं, ब्राह्मणवेदघोषपूर्णायमानं, पाटलिपुत्राख्यं नगरं दृष्ट्वा भ्रान्त्यावलोकयन् स्थितः। ततो ऽत्रागत इति। तेनोक्तम्-विरूपकं कृतम् । मां विहाय व गतो ऽसीति, तन्मे दर्शनीयम् । प्रातः प्रदर्श्यले यदि मम भणितं करोषि। तत्किम् । तत्र गते न विचारयित्वा मौनेन स्थातव्यम् । इति क्रियत एव । ताँवं भवत्विति स्वपुरं गतौ। ततो ऽपरदिने तन्नगरं गत्वा तदुद्याने स्वविमानं गुप्तं विधाय तुणकाष्ठभाराक्रान्ती सालंकारौ तन्नगरपूर्वगोपुरस्थितब्रह्मशालां वितण्डावादपूर्वकं धर्मपरीक्षार्थ गत्वा भेरोरवपूर्वक मनोवेगः सिंहासने उपविष्टः। भेरोरवेणागतैविप्रविष्ण्वादिविकल्पेन नमस्कारपूर्वक, कस्मादागतो, कस्मिन् शास्त्रे परिचयो ऽस्तीत्युक्ते, न कस्मिश्चिदित्युक्ते, तहि भेरीरवः सिंहासनोपवेशनं वा किमर्थम् । वादार्थिना हि भेरोरवः कार्यः। वादे जित्वा सिंहासने उपवेश्यम् । अस्मत्पुरे एवं रोतिः । एवं भवत्विति । तदा तस्मिन् भूमौ उपविष्टौ अकिंचित्करं मत्वा। भवादृशां नीचाचरणं किमिति तैरुक्ते, एतदन्यत्रापि समानम् । कथम् । बिभेमि क पयितुम् । मा भैषोः । तहि भवतां मनसि दूध को भविष्यामि । ननु भोः कथं दूषकता । यतः निन्द्ये वस्तुनि का निन्दा स्वभावगुणकीर्तनम् । अनिन्धं निन्द्यते यत्तु सा निन्दा [ दूष्यतां ] नयेत् ॥१ पुनरुक्तं तेन । कि षोडशमुष्टिकथाकारको नरोऽत्र न विद्यते । स कीदृशः। मलयदेशे शलगलग्रामे भ्रमरस्य पुत्रो मधुकरगतिः। कोपान्निर्गत्य परिभ्रमन आभीरदेशं गतः। तत्र चणकराशीन् दृष्टवास्मद्देशमरोचराशय इवेत्युक्ते तत्रान्यरस्मद्देशमुपहसत्ययम् । दुष्टो निगृहीतव्यः, इत्यष्टमुष्टोन गृहोतः [ग्राहितः] । स तान् लब्ध्वा परिभ्रमणं विरूपमिति पुनः स्वदेशं गतः। तत्र सरीचराशीनवलोक्याभोरदेशे चणकराशय इव, इत्युक्ते तत्रापि तथा लब्धवानिति । नैको ऽपि ईदृशो ऽस्ति, कथय । पुनरुक्तं तेन । अत्यासक्तकथा न क्रियते । तैरुतस् । सा किविधा। स प्राह। रेवानदोदक्षिणतटयां सामंतग्रामे प्रामकूटकस्य बहुधनिनो द्वे भार्ये । सुन्दरी कुरङ्गी च । सुन्दरी पुत्रमाता। दुभंगा विभिन्नगृहे तिष्ठति । स राजवचनेनैकदा मान्याखेटं पुरं गतः। इतः कुरङ ग्याः सर्वद्रव्यं जारैक्षितम् । गृहे तन्नास्ति यद् भुज्यते। फियति काले गते आगसेन बहुधनिना कुरङ्ग गृहं पुरुषः प्रेषितः । प्रभुरागतो मज्जनभोजनादिसामनो विधातव्येति । तया चिन्तितम् । अत्र किंचिन्नास्ति । किं क्रियते । इति पर्यालोच्य सुन्दरोगृहं गत्वा भगति । हे अक्क, प्रभुरागतः । त्वया तद्भोजनादिसामग्री विवातव्येति । तयोक्तम्-स कि मम गृहे भुङ्क्ते । कुरङ्गी भणति । मम भगितं करोति । एवं भवत्वित्यभ्युपगतं तया। स आगत्य कुरङ्गोगृहं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409