Book Title: Dharmapariksha
Author(s): Amitgati Acharya, Balchandra Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 393
________________ ३७२ पाश्वंकीर्तिविरचिता पर्यालोचितम् । मुनिः प्रष्टव्यः। तेन यस्मै दत्ता तस्मै भवत्विति । मुनि पृष्टवन्तः कस्मै धर्मवृद्धिर्दत्तेति । मुनिनात्मनो रक्षणार्थ योऽतिमूर्खः तस्मै दत्तेति भणित्वा गतम् । ते ऽप्यहमहं मूर्ख इति वादेन नगरमागताः । तत्र सभां मेलयित्वा अस्माकं विवादः स्फेटनीय इति मुद्रापणे दत्त सभास्थैः को विवाद इति पृष्टाः। कथिते स्वरूपे मध्यस्थैरुक्तम्-आत्मीयमात्मीयं मूर्खत्वं प्रतिपादयत । तत्रैकेनाभाणि । एकस्मिन् ग्रामे ऽहं ग्रामकूटकः । मम द्वे भायें स्तः। एकस्यां रात्रौ एकस्मिन् एव शयनतले भार्ययोमध्ये उत्तान उभयोरुपरि हस्तौ निधाय सुप्तः । तावदाखुना वति गृहीत्वा गच्छता मम लोचनस्योपरि पातिता वतिः। तच्छिखया दह्यमाने ऽपि लोचने उभयोर्मध्ये कस्यांचिदुपरि स्थितं हस्तम् आकृष्यापसार्यते चेत् प्रेमभङ्गो भविष्यतीति मत्वा सहमान: स्थितः । दुर्गन्धात् ज्ञात्वा ताभ्यां स्फेटिता। तदनु स्फुटिते लोचने । सर्वविषमलोचन इति नाम कृतम् । एतन्मे मूर्खत्वम् । परः प्राह । तन्मौख्यं शृण्वन्तु। एकस्मिन् ग्रामे अहं मुख्यभूतपुरुषः । ममापि द्वे भायें। खरी रिछी च। ताम्यां यथाक्रम मम दक्षिणवामपादयोनवनीतेन मदनं विधीयते । एकस्मिन् दिने खरी दक्षिणपादमर्दनं कृत्वा जलानयनाथं गता प्रविष्टा। अनु रिछया वामपादं दक्षिणस्योपरि निधाय गता। आगतया खर्या दृष्ट्वा मम पावस्योपरि स्वकीयं पादं निक्षिप्य निकृष्टा गतेति कोपात् मुसलेनाहत्य मोटितः पादः । तत्रागतया रिछया द्वितीयोऽपि भग्नः । तदनु सः खञ्ज इति नाम कृतम्। तृतीयो ब्रूते । मम मूर्खत्वमवधारयन्तु। - एकस्मिन् ग्रामे कूटकपुत्रो ऽहम् अपरस्मिन् ग्रामे ग्रामकूटपुत्री परिणीता मया। एकदा स्वग्रामात् श्वशुरग्रामं गच्छतो मे माता बुद्धिवंदौ। कथं तत्राभिमानित्वमवलम्बनीयम् । हे पुत्र, भोक्तमागच्छत्यक्त वचनेनेकेनन भोक्तव्यम। भोजने च स्तोकं भोक्तव्यं स्तोकं त्यजनीयमिति । एवं करोमीति गतो ऽहं श्वशुरग्रामम् । सन्मानपूर्वकं गृहं प्रविष्टः। अपराह्नवेलायां श्वश्वा भोक्तुमाहतः। मयोक्तम् । क्षुधा नास्ति। द्वितीये दिने तथा चोक्त महत्याग्रहे कृते। क्षुधा नास्तीति स्थितः। जामाता न भुङ्क्त इति श्वश्रूः सचिन्ताभूत् । अनु शालितण्डुलान् पिठरकस्थितोदकमध्ये निक्षिप्य मम भार्यायाः तथा प्रतिपादितम। यदैव तव भर्तः क्षधा भवति रात्रौ तदैव रन्धित्वा भोजनं प्रयच्छेरिति । एवं करोमीति तया मे मञ्चकस्याधो निक्षिप्ता पिठरी। रात्रौ क्षधया मे प्राणेषु गच्छत्सु सत्सु प्रिया प्रस्रवणं कतुबहिर्गता। तदैव मया तण्डुलान् गृहीत्वा मुखं भृतम् । चर्वणे क्रियमाणे आगतया भायंया भणितं किं कुर्वन् तिष्ठसीति । गदितोऽपि तदाहं वक्तु नायातीति तष्णों स्थितः। तदन तया मे मुखं दष्ट वोक्तम।नष्टाह.भर्ताधिरभतामात्रे निरूपितम। महाकोलाहलो ऽभूत । तदा लज्जया तण्डला मया न गिलिताः। प्रातरहं कस्मैचिद वैद्याय दशितः। श्वश्रवा तस्य दर्शितो ऽहम् । तेन मे ओष्ठयोः पिष्टमवलोक्य तण्डुलचर्वणं जानतापि भणितम् । विधमो व्याधिः । एतत्पुण्यादहमागत इति यथेष्टं द्रव्यं गृहीत्वा मे कपोलौ भेदयित्वा तण्डुलानाकृष्य जनानां प्रदर्शिताः। भणति च। अयं तण्डुलव्याधिः । तदनु अहं गल्लस्फोटको जातः । इति मदीयं मूर्खत्वम् । चतुर्थो बभाण । इदानी मे मूर्खतामवधारयन्तु । एकस्मिन् ग्रामे अहं पामरः सुखेन स्थितः । एकस्यां रात्रौ भायंया सह जल्पन स्थितः । तदवसरे ऽन्तश्चौरः प्रविष्टः। स यावदावां निद्रा कुर्वस्तावदसंबलः स्थितः । वचने जातालस्येन Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409