Book Title: Dharmapariksha
Author(s): Amitgati Acharya, Balchandra Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text
________________
धर्मपरीक्षाकथा
३७५ किं च यदि जातिः ब्राह्मणः सा च नित्या ब्राह्मणैरभ्युपगता। न च ब्राह्मणस्य ब्राह्मणत्वं नित्यम् । उक्तं च मानवे धर्मशास्त्रे।
सद्यः पतति मांसेन लाक्षया लवणेन च । व्यहेण शूद्रो भवति ब्राह्मणः क्षीरविक्रयो। इतरेषां तु पुण्यानां विक्रयादिविकल्पनात् । ब्राह्मणस्त्वेकरात्रेण वैश्यभावं तु गच्छति ॥ वृषलीफेनपीतस्य निःश्वासोपहतस्य च । तत्रैव प्रसुप्तस्य निष्कृति!पलभ्यते ॥ ऋतुकालमतिक्रम्य योऽभिगच्छति मैथुनम् । स भवेद् ब्रह्महा नाम हतस्तेन निजात्मकम् ॥ ऋतुकाले व्यतिक्रान्ते यस्तु सेवेत मैथुनम् ।
ब्रह्महत्याफलं तस्य सूतकं च दिने दिने । ___ इति वचनात् ज्ञायते जातिः ब्राह्मणो न भवतीति । जीवो ऽपि ब्राह्मणो न भवति । स्मृतिवचनप्रामाण्यात् । कि तद्वचनम् ।
अधीत्य चतुरो वेदान् साङ्गोपाङ्गान् सलक्षणान् । शूद्रात् प्रतिग्रहं कृत्वा खरो भवति ब्राह्मणः॥ खरो द्वादश जन्मानि षष्टिजन्मानि सूकरः।
श्वानः सप्ततिजन्मानि इत्येवं मनुरब्रवीत् ॥ इति वचनात् जोवो ऽपि न ब्राह्मणः। कुलमपि ब्राह्मणो न भवति । मुनीनां कुलस्य दोषप्रसंगात् । तद्यथा।
हस्तिन्यामचलो जातः उलूक्यां केशकम्बलः । अगस्त्यो ऽगस्त्यपुष्पाच्च कौशिकः कुशसंस्तरात् ॥ कठिनात् कठिनो जातः शरगुल्माच्च गौतमः। द्रोणाचार्यस्तु कलशात् तित्तिरस्तित्तिरीसुतः॥ रेणुकाजनयदामं ऋष्यशृङ्गं वने मृगी। कैवर्ती जनयेद् व्यासं कपिलं चैव शूद्रिका ॥ विश्वामित्रं च चाण्डाली वसिष्ठं चैव उर्वशी । श्वपाको पारासरम् ।
न तेषां ब्राह्मणी माता ते ऽपि लोकस्य ब्राह्मणाः ॥ इति वचनात् न कुलं ब्राह्मणः । ब्राह्मणानां प्रादुर्भविका योनिरपि न ब्राह्मणः। तत्कथम्
जन्मना जायते शूद्रः क्रियया द्विज उच्यते ।
श्रुतेन श्रोत्रियो ज्ञेयो ब्रह्मचर्येण ब्राह्मणः॥ तथा उक्तं च वेदे।
मुखतो ब्राह्मणा जाता बाहुभ्यां क्षत्रियास्तथा। ऊरुभ्यां वैश्यजातिश्च पादाभ्यां शूद्रजातयः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409