Book Title: Dharmapariksha
Author(s): Amitgati Acharya, Balchandra Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text
________________
३७८
पाश्वकीर्तिविरचिता श्वा किल देवो ऽभूदित्यसत्यमेतत् । अयं निगृह्यतामिति । तस्य निग्रहकरणे आसनकम्पेन ज्ञात्वागत्य तेन देवेन राजस्ताडनाविरुपसर्गः कृतः। तदनु राज्ञा पादयोः पतित्वा रक्ष रक्षेत्युक्ते हमसमर्थः श्रेष्ठी समर्थ इति भणितेन राजा श्रेष्ठिसमोपमागत्य क्षन्तव्यमित्युक्तवान् । श्रेष्ठिना देवो निवारितः। स चात्मस्वरूपं प्रतिपाद्य स्वावासं गतः। राजादयस्तमतिशयं दृष्ट्वा धर्मनिरता बभूवुः । श्रेष्ठी च श्रियान्नदानं निवायं संचितद्रव्येण कुक्कुरवसतिं कृत्वा सुखेन स्थितः । इत्यनस्तमितधर्मकथां श्र त्वा पवनवेगो हृष्टः। सकलधावकवतानि गृहीतवान् । तदनु तौ वसुपूज्यकेवलिनं स्तुत्वा स्वावासं गतौ । सुखेन स्थितौ।
इति श्रीरामचन्द्रेण मुनिना गुणशालिना। ख्याता धर्मपरीक्षा सा कृताकृतरियं ततः॥ श्रीपूज्यपादसद्वशे जातो ऽसौ मुनिपुङ्गवः । पप्रनन्दी इति ख्यातो भव्यव्यूहप्रवन्दितः ॥ तच्छिष्यो देवचन्द्राख्यो भद्रश्चारुगुणान्वितः। वेदिता सर्वशास्त्राणां ख्यातो धर्मरताशयः ।। स च शुद्धवतोपेतः समयादिविजितः । समयः सर्वसत्त्वानां तत्प्रार्थनवशाद् वरः ।। यावद् व्योम्नि प्रवर्तन्ते शशाङ्करवितारकाः। तावद् धर्मपरीक्षेयं वतिषीष्ट सदाशये ॥ पद्मनिवासभूता हि कथा पवायनों वराम् । तथा धर्मपरीक्षां च मिथ्यात्वाज्ञानध्वंसिनीम् ॥
इति धर्मपरीक्षाकथा समाप्ताः॥छ। शुभं भवतु लेखकपाठकयोः ।
ग्रं २०० । श्रीसरस्वत्यै नमः।
श्रोदेशीयगणाग्रगण्यसकलसंयमगुणाम्भोधि-श्रीपाश्चंकीर्तिमुनिराजस्य धर्मपरीक्षा
ग्रन्थस्य शुभमस्तु । कल्याणमस्तु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409