Book Title: Dharmapariksha
Author(s): Amitgati Acharya, Balchandra Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text
________________
३७०
पार्श्वकीर्तिविरचिता तव भत्यो ऽहम् । तदनु शुश्रूषां कुर्वन् स्थितः । अश्वमार्गेणागते परिजने राजा विभूत्या पुरं प्रविष्टः । तदनु हलियोग्यम् उक्तं राज्ञा। रे पञ्चशतनामान् गृहाण । तेनोक्तम् । मातरं पृष्ट्वा गृह्यते। तदनु पृष्टया मात्रा गदितम् । हे पुत्र, त्वमहं चोभौ। एवं गृहोतेषु ग्रामेषु चिन्तां कः करिष्यति । यदि राजा तुष्टस्तहि सुभूमिक्षेत्रमेकं गृहाण। एवं करोमीति राजसमीपं गत्वा याचिते क्षेत्रे राज्ञोक्तम्। हे अकृतपुण्य, ग्रामान् गृहाण । तेनोक्तम् परिचिन्ताकारकाभावात् न गृह्यन्ते । सति द्रव्ये सर्व भविष्यति । गृहाण । न । सर्भणितम् । पुण्यहीनस्य संतुष्टो राजा कि करोति । तथा चोक्तम् ।
न हि भवति यन्त्र भाव्यं भवति च भाव्यं विनापि यत्नेन ।
करतलगतमपि नश्यति यस्य च भवितव्यता नास्ति ॥ इति । तथापि राज्ञा करुणया तस्या अगुरुवन्दनं दत्तम् । तेन चिन्तितम् । अहो, यो राजा सुक्षेत्र दातुमसमर्थः स किं पञ्चशतग्रामान दास्यति इति । तेन तद्वनं सर्व छेदयित्वा संशोष्य प्रज्वालितम् । कियत्सु दिनेषु राज्ञा तद्वनं किं कृतमिति पृष्टः । तेनोक्तम् । छेदयित्वा दग्धमिति । पुनरुक्तं राज्ञा । तत्र किंचिदुद्वतं विद्यते नो वा। तेनाभाणि । अर्धदग्धानि काष्ठानि सन्तीति। राज्ञोक्तम् । एकमानय । आनीतम् । इदानीं त्वापणे विक्रीणीथाः। तथा कृते बहु द्रव्यं दृष्ट्वा कृतः पश्चात्ताप इति । न तथा को ऽपि । मा भैषोः । कथय ।
विकर्मपुरे वणिक्पुत्रावावाम् । आवयोः पिता बौद्धभक्तः । आवां बौद्धनिकटे पठावः । एकस्मिन् दिने अकालवृष्टिर्जाता। गुरोः संस्तरस्योपरि उदकस्रवणे जाते तच्छोषणार्थ समीपस्थपर्वतस्योपरि गतौ। शोषणसमये द्वाम्यां सृगालाम्यां पर्वतमुत्सार्यान्यत्र द्वादशयोजने नीत्वा स्थापितः सः। गतयोस्तयोरावां तदुपकरणानि गृहीत्वा बौद्धवेषेण भ्रमन्तावत्रागतौ इति तपोनुष्ठानकारणं भणितम् । अहो वैचित्र्यं रक्ताम्बरवचसः कथम् । अल्पसत्त्वाम्यां किं पर्वतमुत्सायं द्वादशयोजनेषु निक्षिप्यते । किं भवत्पुराणे प्रसिद्धमिदं न भवति । यदि भवति, कथय । कथ्यते।
रामायणे सीताहरणे जाते शुद्धौ च सत्यां लङ्कागमनोपायः क इति सचिन्तो रामः। मर्कटैर्भणितः । मा चिन्तां कुरु । सर्वमस्माभिः क्रियत इति । पर्वतानुत्सार्यानीय तैः सेतुर्बद्ध इति । उक्तं च।
एते ते मम बाहवः सुरपतेर्दोर्दण्डकण्डूपहाः सो ऽयं सर्वजगत्पराभवकरो लङ्केश्वरो रावणः। सेतुं बद्धमिमं शृणोमि कपिभिः पश्यामि लङ्कां वृतां
जीवद्भिस्तु न दृश्यते किमथवा कि वा न वा श्रूयते ॥ इति सत्यं विद्यते नो वा । न विद्यते इति केन भण्यते । यद्येवं तहि वानराणां भूधरोद्धरणमुचितं न शृगालयोरिति कथं श्लाघ्यम् । इति बहुधा जित्वोद्यानं गतौ। पवनवेगेन पृष्टो मनोवेगः। कथं रामलक्ष्मीधरयोर्लङ्कागमनमिति । स आह । हे मित्र, अस्मिन् भरते उत्सपिण्यवसपिण्यौ समे प्रवर्तते । तयोः प्रत्येकं षटकालाः प्रवर्तन्ते । तत्रेयमवसपिणी । अस्यां षट्कालाः सन्ति । ते च के। सुषमः, सुषमसुषमः सुषमदुष्षमः, दुष्षमसुषमः, दुःष्षमः, अतिदुष्षमश्चेति । तत्र चतुर्थकाले त्रिषष्टिशलाकापुरुषाः स्युः। ते च के । चतुर्विशतितीर्थकराः । किनामानः । वृषभः, अजितः, संभवः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409