Book Title: Dharmapariksha
Author(s): Amitgati Acharya, Balchandra Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 390
________________ धर्मपरीक्षाकथा ३६९ तदनु पवनवेगेन भणितम् । हे मित्र, यदि कर्णः कर्णेन निर्गतश्च न भवति, तर्हि तस्योत्पत्ति ब्रूहि । मनोवेगः प्राह। अत्रैवार्यखण्डे कुरुजाङ्गलदेशे हस्तिनागपुरेशो विचित्रः। तस्य तिस्रो देव्यः, अम्बा, अम्बाला, अम्बिका चेति । तासां क्रमेण पुत्रा धृतराष्ट्रपाण्डुविदुराः। सूर्यपुराधिपान्धकवृष्णिभ्राता नरवृष्णिः । तत्पुत्री गान्धारी जात्यन्धकधृतराष्ट्राय दत्ता। अन्धकवृष्णिना भणितम् । मम पुत्र्यो कौन्तोमाद्रयौ पाण्डवे दास्यामोति । तच्छु त्वा पाण्डुइष्टः । पाण्डोः पाण्डुरोगपीडां श्रुत्वा राजा मत्पुत्र्यो अन्यस्मै दास्यामीत्युक्तम्। तच्छु त्वा पाण्डुदु:खितः चिन्ताग्निना संतप्तगात्रः एकदोद्यानं गतः । तत्र लतागृहनिकटे मुद्रिका दृष्टा गृहीता च । तववसरे व्याकुलोकृतान्तरङ्गश्चिन्तागतिर्नामा विद्याधरः समायातः। इतस्ततोऽवलोकितवांश्च । पाण्डुना दृष्ट्वोक्तम् । किं भवदीयेयं मुद्रिका । दृष्टवा तेनोक्तम् । भवत्येव । दत्ता। तेन खगेनोक्तम् । त्वत्प्रसादाज्जीवितोऽहम् । त्वं किमिति कृशः। कथिते वृत्तान्ते वियच्चरेणोक्तम् । इयं काममुद्रिकाभीष्टं रूपं प्रयच्छति । एतन्माहात्म्यावभिलषितसुखानुभवनं कुरु । पश्चान्मया गृह्यते इति दत्ता तेन । पाण्डुस्तां गृहीत्वा सूर्यपुरों गतः । कुन्त्या जलक्रीडावसरे तदुद्यानं प्रविष्टः। काममुद्रिकाप्रभावेण विशिष्ट रूपमात्मीयं तस्या दर्शितम् । तेन सा चासक्ता बभूव । स च स्त्रीरूपेण तद्गृहं प्रविष्टः। अष्टादशदिनानि सा सह स्थित्वा स्वपुरं गतः। इतस्तस्या गर्ने माते मातापितृभ्यां पृष्टा। तया सर्व कथितम् । गूढगर्भण पुत्रं प्रसूता । स च मञ्जूषायां निक्षिप्य स्ववंशावल्या सह यमुनायां प्रवाहितः । अङ्गदेशे चम्पापुरेशसूर्येण तं दृष्ट्वा स्वदेव्या राषायाः समर्पितः। स च मञ्जूषायां कर्णी धृत्वा स्थित इति कर्णनाम्ना वृद्धि गतः । इति निरूपिते हृष्टः पवनवेगः । ततोऽन्यस्मिन् दिने बौद्धवेषेण गत्वा दक्षिणपूर्वस्यां दिशि स्थितगोपुरे तत्क्रमेणोपविष्टौ। तथैव संभाषणे कृते विप्रैः को गुरुः, कि तपश्चरणकारणमिति पृष्टे, नावयोर्गुरुविद्यते। गुरु विना कथं तपः । कथयितुं नायाति । किमिति । क्षीरकथाकरणभयात् । सा कोदृक्षा। ___सागरदत्तो नाम वणिक् नालिकेरद्वीपं व्यवहाराचं गतः । सह नीताया गोर्दधि तदधीशतोमराय दत्तम् । तेन चोक्तम् । किमर्थमिदम् । वणिजोक्तम् । भोजनार्थम् । भुक्ते तस्मिन् तोमरणोक्तम् । कस्मादिदं रसायनमानीतं त्वया। वणिजोक्तम् । मम कुलदेवतया दीयते। सा मां दातव्या। वणिजोक्तम् । न । पुनस्तोमरेणोक्तम् । यत्त्वया प्रार्थ्यते तन्मया दीयते इति । महताग्रहेण याचिता गौर्यावदिष्टं तावद् द्रव्यं गृहीत्वा दत्ता। तेन स्थापिता स्वगृहे। भोजनवेलायां तस्या भाण्डं प्रदश्यं याचितं रसायनम् । सा मौनेन स्थिता। एवं द्वितीयदिने तृतीयेऽपि याचिते अदाने सति तद्गुणमजानता संकुप्य निःसारिता। एवमेव तु यो यद्गुणं न जानाति स तेन किं करिष्यति । तदुक्तम्। गुणा गुणज्ञेषु गुणीभवन्ति ते निर्गुणं प्राप्य भवन्ति दोषाः । सुस्वादु तोयं भवतीह नद्याः समुद्रमासाद्य भवन्त्यपेयम् ॥ एवंविधः कोऽपि न विद्यते । कथय । अगुरुकथाकरणे विभेमि। सा किलक्षणा। मगधदेशे राजगृहे राजा गजरथः । तत्रैकः कुटुम्बी हरिमेधहरः । तदपत्यं हलिः। मृते पितरि हलिना धावने ऽभ्यासः कृतः। जिताभ्यासो भूत्वा सिंहद्वारे राजसेयां करोति । एकदा राजा बाह्याल्यथं गतः दुष्टाश्वेन वनं नीतः। स्थिते परिजने हलिः सहगतः। राज्ञा दृष्ट्वा पृष्टः । कस्त्वमिति । तेनोक्तम् । ४७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409