Book Title: Dharmapariksha
Author(s): Amitgati Acharya, Balchandra Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text
________________
३६८
पाश्र्वकोतिविरचिता दृष्ट्वा विस्मितः । ज्ञानेन ज्ञात्वा यावत्ते पतिर्भवति तावद् गर्भः स्थिरो भवदिति स्तम्भितः । ततः सप्तशतवर्षेषु गतेषु लंकायां रावण उत्पन्नो राज्ये स्थितः । एकदा पापधि गतः। मन्दोदरों दृष्टवासक्तो जातः । अनुयाचिता ऋषिणा दत्ता। तां परिणीय स्वपुरं गतः । तस्याः पुत्र इन्द्रजिज्जातः । एतद्भवति नो वा । भवत्येव ।
एवं तहि तस्या गर्भे सप्तशतवर्षाणि स्थातुमुचितम् । न ममेति को ऽयं नियमः । भवतु तत्र स्थितिः । कथं मुखनिर्गमनम् । कथं कर्णस्य कर्णनिर्गमनम् । भवतु मुखनिर्गमनम् । कथं तदैव भोजनयाचनम् । किं भवद्भिः स्वमतं न ज्ञातम् । त्वया ज्ञातं चेत् ब्रूहि । प्रोच्यते ।
पाराशरो नाम प्रसिद्ध ऋषिः गङ्गायाः परतोरगमनाथं तारकमपश्यन् तत्पुत्री योजनगन्धां दृष्ट्वा मामुत्तारयेत्युक्तवान् । तयोक्तम् । त्वं देवर्षिः। अहं निकृष्टा। उभधोः कथं सह यानम् । तयोक्तम् । तेनोक्तम् । न दोषः इति । नावं चटयित्वा याने नदीमध्ये आसक्तचित्तेनोक्तम् । मामिच्छ । नोचितम् । तेनोक्तम् । भणितं कुरु । तव शरीरे सौगन्ध्यं करोमोति । कृते तस्मिन् पुनस्तयोक्तम । जनाः पश्यन्ति । तेन नीहारः कृतः। पुनस्तयोक्तप । नौर्न तिष्ठति। कथं सौख्यम। तेन द्वीपाः कृताः। एकस्मिन् द्वीपे तया सह क्रोडितवान् । एवंविधस्य कथमेतज्जातम् । संगात् । तथा चोक्तम् ।
ब्रह्मचर्यविशुद्धचथं त्यागः स्त्रीणां न केवलम् ।
त्याज्यः पुंसामपि प्रायो विटविद्यावलम्बिनाम् ॥इति । तपोग्निना दग्धकामेन्धनस्य कथमेतत्संभाव्यते । स्त्रीमुखावलोकनात् । तथा चोक्तम् ।
क्षीणस्तपोभिः क्षपितः प्रवासैविध्यापितश्चारु समाधितो यः।
तथापि चित्रं ज्वलति स्मराग्निः कान्ताजनापाङ्गविलोकनेन ॥इति । क्रीडावसाने परतीरं गतः तदैव तस्या गर्भसंभूतौ सत्यां जटाजूटधरो लाकुटकौपीनसमन्वितो व्यास उत्पन्नः । तदैव तेनोक्तम् । मया कथं क्व तपः क्रियते । इति पृष्टे पाराशरेणोक्तम् । त्वयात्रैव तपः कर्तव्यमिति प्रतिपाद्य गतः। एतत् कि परमार्थभूतं नो वा । नेति केन भण्यते । तहि तदैव व्यासस्य तपःशिक्षा प्रष्टुमचितम् । न मम भोजनयाचसमिति कथं प्रतिपाद्यते । भवतु तद्याचनम् । त्वयि पुत्रे जाते तव माता कथं कुमारी। किं न ज्ञायते भवद्भिः । न ज्ञायते । यदि त्वया ज्ञायते हि कथय । कथ्यते।
कौन्त्याः सूर्येण गर्भो जातः । तदनु कर्णः पुत्रो जातः । तथापि सा कन्या । तथापरापि कथा।
उद्दालको नामषिः। स चैकदा गङ्गायां कृतस्नानः अनुकौपीनं प्रक्षाल्य कमलकणिकायां निपोडितवान् । तत्कमल-नयोध्याधिपरधुपतिसुता चन्द्रमती तत्र स्नातं गता। तया समीचीनं दृष्ट्वाध्रातम् । तदनु सा गृहमागता गर्भचिह्न जाते मातापितृभ्यां पृष्टा । पुत्रि, कस्यायं गर्भः। तयोक्तम् । मया न ज्ञायते। नवमासावसाने तृणबिन्दुनामानं पुत्रं प्रसूता। स च जारपुत्र इति जनर्भण्यते । सापि केनापि परिणीयते। एकदा भिक्षार्थमागतेनोद्दालकेन तृणबिन्दुं दृष्ट्वायं मम पुत्र इति ज्ञातम् । सा च राजसमीपे याचित्वा परिणीता। एतत कि विद्यते नो वा। एवं तर्हि ताभ्यां पुत्रमातृभ्यां कन्यात्वं घटते। न मम मातुरिति कथं विचार्यते। इति हेतुनयदृष्टान्तैरनेकधा जित्वोद्यानं गतौ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409