Book Title: Dharmapariksha
Author(s): Amitgati Acharya, Balchandra Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 379
________________ ३५८ पार्श्वकीर्तिविरचिता अपूर्वं दशनमस्माकं केन दृष्टमिदं भुवि । उन्मत्तो वा पिशाचो वा इति तेषां विचारणा ॥ कैश्चिदुक्तम् - अयमीश्वरो मुक्ति गन्तुमुद्यतो ऽभूदिति । केचिदुक्तम् - यद्येवंविधो मुक्ति गच्छति नरकं को गच्छेदिति । तथा चोक्तम् रज्ज्वा बध्नाति वायुं मृगयति स जले मत्स्यकानां विभागं बन्ध्यस्त्रीषण्डकानामभिलषति सुतं वालुकाम्यश्च तैलम् । दो गन्तुं पयोधि झषकुलकलिताङ्गो विषाणे ऽपि दुग्धं सर्वारम्भप्रवृत्तौ नरपशुरिह यो मोक्षमिच्छेत् सुखानि ॥ कैश्चिदुक्तम् - शिवोऽयं कृतकृत्य इति । कैश्चिदुक्तम् - यद्येवं शिवः तर्हि शैवसिद्धान्तस्य विरोधो भवति । सिद्धान्तः कः । पाताले चान्तरिक्षे दश दिशि भवने सर्वशैले समुद्रे काष्ठे लोष्टेष्टिकाभस्मसु जलपवने स्थावरे जङ्गमे वा । बीजे सर्वोषधीनामसुरसुरपुरे पत्रपुष्पे तृणाग्रें सर्वव्यापी शिवोऽयं त्रिभुवनभवने नास्ति चेदन्य एव ॥ इत्यादि । सर्वव्यापिनो गमनागमन संभवश्चेत्यादिविकल्पानुत्पादयन् हिमवगिरिसमीपं गतः । तद्गिरेर्या पूर्व मृता सती गौरी नाम्नी पुत्री बभूव । पर्वतस्य कथं दुहितेति चेदाह । पूर्वं सर्वेषां पर्वतानां पक्षाः सन्ति । पक्षिण इव खे चरन्तः एकदा अमरावतीं गताः । तत्र चेन्द्रवनं भक्षित्वा रोमन्थं वर्तयन्तः स्थिताः । इन्द्रेण दृष्ट्या कोपेन वज्रायुधेनाहत्य पातिताः । हिमवद् गिरिर्मेना नाम स्त्रीगिरेरुपरि पतितः । तदेवावसरे तस्याः जीवो मध्ये ऽभूत् । तयोः संघट्टनेन पुत्री बभूवेति । स्फुलिङ्गमध्ये उत्पन्नेति तस्याः कामाग्नेः उपशान्तिर्नास्तीति तेन दृष्ट्वा च याचिता च प्राप्य विवाहिता । तथा सह कैलासे तिष्ठन् एकस्मिन् दिने बहिगंत्वागत्य द्वारे स्थित्वा प्रिये द्वारसुद्घाटयेत्युक्ते तयोक्तं वक्रोक्त्या । Jain Education International कोऽयं द्वाराग्रतो ऽस्थाद्वदति पशुपतिः किं वृषो नो ऽर्धनारी, fi पिण्डो नैव शूली किमपि च सरुजो न प्रिये नीलकण्ठः । ब्रूहि त्वं किं मयूरो न हि विदितशिवः कि पुराणः शृगालः इत्येव हैमवत्या चतुरनिगदितः शंकरः पातु युष्मान् ॥ इति कैलासे गौरीसमेतः शंकरस्तिष्ठति । प्रतिदिनं गङ्गायां स्नानार्थं गच्छति । एकस्मिन् दिने गङ्गाकुमारी सुरूपां दृष्ट्वा विशिष्टरूपेण तन्निकटं गत्वोक्तवान् का त्वमिति । तयोक्तम्गङ्गा । तेनोदितम् - को भर्ता । तयोक्तम्- यो ऽद्वितीयः स मे भर्ता । न तादृशः को ऽप्यस्ति । सबभाण - अहमेव तथा । इति भणित्या परिणोता। तथा सह कामक्रीडां करोति । शिवाभीत्या तां तत्रैव निधाय कैलासं गतः । साध्यवलोकयन्ती तत्रागता । तथा गौर्या सह सारैः क्रीडन्नीश्वरो दृष्टः । तां दृष्ट्वा गौर्योक्तम् का त्वं सुन्दरि जाह्नवी किमिह ते भर्ता हरो नन्वयम् अम्भस्त्वं किल वेत्सि मन्मथरसं जानात्ययं त्वत्पतिः । स्वामिन् सत्यमिदं न हि प्रियतमे सत्यं कुतः कामिनीमित्येवं हरजाह्नवीगिरिसुतासंजल्पनं पातु वः ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409