Book Title: Dharmapariksha
Author(s): Amitgati Acharya, Balchandra Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 381
________________ पार्श्वकीर्तिविरचिता ॐ भूर्भुवःस्वस्तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयादिति । अतञ्चास्या गायत्री नाम जातम् । तच्छ्रुत्वा लज्जितः प्रजापतिः । ततो निर्गच्छन् तस्या भण्डमुत्पन्नं ज्ञात्वास्य श्लोकस्यार्थं च स्मृत्वा, को ऽसौ श्लोकः । ३६० पुस्तकप्रत्ययाधीतं नाधीतं गुरुसंनिधौ । न शोभन्ते सभामध्ये जारगर्भा इव स्त्रियः ॥ इति लोकापवादभयेन तच्च लिङ्गाग्र णाकृष्यान्तर्मुष्कप्रदेशे स्थापितम् । ततो वातवृषाणी जातः । स एकदा भ्रमन्निन्द्रपुरीं दृष्टवान् । तत्र रम्भाप्रभृतोदृष्ट्वा कामाग्नितप्तचित्तः युद्धे इन्द्रपदवीं ग्रहीतुं न शक्यते । प्रार्थने कि कलत्रदानमस्ति, वृथावचनं भविष्यतीति तपसा सर्व साध्यं भवति । तथा चोक्तम् यद्दूरं यदुराराध्यं यच्च दूरे व्यवस्थितम् । तत्सर्वं तपसा साध्यं तपो हि दुरतिक्रमम् ॥ इति पर्यालोच्य इन्द्रपदव्यर्थं साधं दिव्यवर्षसहस्रत्रयं तपः कर्तुं लग्नो ब्रह्मा । तं ज्ञात्वा सचिन्तः शचीपतिर्बृहस्पतिना भणितः । किमिति सचिन्तः । तेन सर्वंस्मिन् कथिते बृहस्पतिर्बंभाणतावत्तपो वपुषि चेतसि तत्त्वचिन्ता कामं हृषीकविजयः परमः शमश्च । यावन्न पश्यति मुखं मृगलोचनानां शृङ्गारवृत्तिभिरुदाहृतकामसूत्रम् ॥ इति तत्र तत्तपोविनाशाय वनिता प्रस्थापनीया । तद्वचनेनेन्द्रेण स्वदेवीनां रम्यप्रदेशं तिलप्रमाणं गृहीत्वा तिलोत्तमानाम्नी वनिता कृता । प्रेषिता च तत्र तया गत्वा नृत्ये क्रियमाणे स उद्घाटितदृष्टिः त्यक्ताक्षमालिको भूत्वा द्रष्टु ं लग्नः । तं ज्ञात्वा तया दक्षिणस्यां दिशि नृत्ये कृते, यदि तन्मुखो भूत्वावलोकयामि तह सर्वैर्हास्य इति मत्वा दिव्यवर्षसहस्रतपश्चरणफलेन अपरं मुखं कृत्वावलोकितवान् । तथा पश्चिमोत्तरयोरपि । उपरि नर्तने सति पञ्चशतवर्ष तपः फलेन गर्दभशिरो निर्गतम् । तच्च गगनतलं व्याप्नुवत् सुरविद्याधरादीन् गिलितुं लग्नम् । तदिन्द्रादिदेवोपरोधेन हरेण नखैश्छिन्नम् । तस्य भिन्ना कथा । एकस्मिन् ग्रामे गङ्गामार्गे धवलवत्सः अवशोषितस्तेन तद्ब्राह्मणी हता । ब्रह्महत्यातः कृष्णो जातः । ततो भणितम् - तव स्वामिनीहत्यया पापं जातम् । तत्परिहारार्थं प्रातर्गङ्गां गच्छेति श्रुत्वा चलितः । महादेवेनाकर्ण्य भणितम् । तथा करिष्यानि पापपरिहारार्थम् । एवं पञ्चमहापातकानि तत्प्रसादाद् गतम् [ गतानि ] ततः प्रभृति वृषभवाहनः । सा स्वगं गवा | संक्षितकामाग्निकः तामपश्यन् अच्छभल्लीमनुभुक्तवान् । तया तच्छरीरं नखै विदारितम् । तत्प्रभृति मनुजाः तथा प्रवर्तितु लग्नाः । तस्या जाम्बूनदो नाम पुत्रो जातः । ततो देवैर्हसितो लज्जितः सन् भ्रमितुं लग्नः । Jain Education International एकदामरावतीबाह्ये उर्वशीं नाम वेश्यां दृष्ट्वा स्ववचनकौशलेन स्वानुरक्तां कृत्वा तथा सह क्रीडासमये तदण्डं स्वलिङ्गाग्रेणाकृष्य तद्गर्भे निक्षिप्तम् । सा च वसिष्ठं नाम पुत्रं प्रसूता । ब्रह्मा स्वपदवीं तस्मै दत्त्वा तपोऽर्थी गतः । इतः सर्वशास्त्रकुशलेन वसिष्ठेनैकदा द्विजेभ्यो नमस्कारश्चक्रे । न च तैः प्रत्यभिवादितः । तेनोक्तम्- किमिति न प्रत्यभिवादितोऽहम् । तैरुक्तम् - एवंविधो ऽसीति । ततो ऽसौ लज्जया वेद पर्वते तपः कतु लग्नः । वृद्धो भूत्वा इदानों मम तपोविघ्नं नास्तीति भ्रमितुं लग्नः । एकदा एकस्मिन् ग्रामे अक्षमालिकानाम्नों चाण्डालीं दृष्ट्वा For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409