Book Title: Dharmapariksha
Author(s): Amitgati Acharya, Balchandra Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text
________________
धर्मपरीक्षाकथा
३६५ इत्येवमादिना वचनालापेन मित्रस्य चित्तं मृदुतामानीतम् ॥छ।
ततो ऽपरदिने ऋषी भूत्वा पश्चिमगोपुरे तत्क्रमेणोपविष्टौ । द्विजैस्तत्क्रमेण संभाषणादिके कृते न किंचिद्विरुद्वम् इति प्रतिपाद्य तथैव भूमावुपविष्टे विप्रैर्गुरौ तपश्चरणकारणे च पृष्टे नावयोगुरुरस्ति, तहि कथं तपः । कथयितुं बिभेमि । मा भैषोः । गुणवर्मणः कथा किं न क्रियते। सा किरूपा। प्रतिपादयति खगः। चम्पापुरे राजा गुणवर्मा, मन्त्री हरिः, तेनैकदा बहिर्गतेन सरोवरे शिला प्लवन्ती दृष्टा । राज्ञे कथितम् । राज्ञा ग्रहो लग्न इति प्रतिनिगृहीतः । तेनोक्तम् - ब्रह्मराक्षसोऽहम् । गच्छामोति विसजितः। स मन्त्रिणा स्वहृदये वैरं स्मरता स्वोद्याने मर्कटाः संगीतकं कतुशिक्षिताः । कथम् । यदैव मनुष्यमवलोकयन्ति तदैव नृत्यन्ति यथा सुशिक्षितेषु। मन्त्रिणा राजा उद्यानं नीतः। तस्यैव तन्नृत्यं दर्शितम् । दृष्ट्वा राज्ञोक्तम्-अहो विचित्रं मर्कटानां संगीतकम् इति । तदनु मन्त्रिणा धृत्वा राजभवनं नीतः ग्रहो लग्न इति धूपः प्रदर्शितः। राज्ञोक्तम्झोटिंगोऽहं गच्छामि। तदनु विजितः। स्वस्थेन राज्ञोक्तम्-सम्यग्मया दृष्टम् । किमर्थमेतत् कृतम् । मन्त्रिणोक्तम्-अभेद्धं [अश्रद्धेयं] न वक्तव्यं प्रत्यक्षमपि यद्भवेत् ।
यथा वानरसंगीतं यथा सा प्लवते शिला॥ इति श्रुत्वा द्विजैरुक्तम्-न तादृशः कोऽपि । कथय । एकान्तग्राहिणः कथा कि न विधीयते। किविशिष्टा सा। स आह । वन्दुरवारे पुरे राज्ञो दुर्धरस्य पुत्रो जात्यन्धः । स च केनचित् प्रशंसितः सन् स्वान्याभरणानि ददाति । बहुकालेन पुत्रो ऽपोमयैराभरणैविभूषितः कृतः। उक्तं च तस्य । हे पुत्र, इमान्याम्नायागतानि देवताधिष्ठानि विभूषणानि । यो यो ऽयोमयानीति भणति स अनेन लकुटेन हन्तव्य इति निरूपिते स तथा करोति । न तादृशः कोऽपि । निवेदय । कथ्यते । अयोध्यापुरे वणिक्-समुद्रदत्तस्य पुत्रावावां वसतौ ऋषिपाश्र्वे पठावः । चतुर्दशीदिने गुरोः कुण्डिका भतु यावद् गच्छावः, तावदाजहस्तो स्तम्भमुन्मूल्य सर्वान् मारयन् आवयोर्मारणार्थमागतः । आवां पलाय्य नगरबहिरेरण्डशाखायां कुण्डिकामवलम्ब्य झम्पनमपसार्य तत्र प्रविश्य झम्पने दत्ते पिपलिकां दातु विस्मृतौ। तद्वारेण हस्ती प्रविष्टः। तद्भयादावां तन्मध्ये नश्यावः । स च पृष्ठे लगति । यावत् षण्मासान् तत्र स्थातुमशक्तौ तद्वारेण निर्गतावावाम् । गजो ऽपि तेनैव निर्गतः । पुच्छबाल एको न निर्गच्छतोति हस्ती स्थितः। आवामृषी भूत्वा यात्रागताविति तपश्चरणकारणं भणितम् । श्रुत्वा विर्भणितम्। अहो दिगम्बरस्य वचनमसत्यम् । तेनोक्तम्-कथमसत्यम् । कुण्डिकायां प्रवेशः, तद्भारेण शाखायाः अभङ्गो गजस्यापि प्रवेशः, उभयोः पलायनं, गजस्य पृष्ठतः प्रायणं, षण्मासान् उभयोनिर्गमन, गजबालस्यानिर्गतः, सर्व विरुद्धम् । भवत्पुराणे किमीदृशं नास्ति । नास्ति, यद्यस्ति हि कथय । कथ्यते । तद्यथा
ब्रह्मा लोकं कृत्वा नारायणस्य हस्ते रक्षणार्थ प्रतिष्ठाप्य भिक्षार्थ गतः। विष्णुना हरभयाद् गिलितो लोकोऽनुगत्वातसीझाडावस्थितागस्त्यं दृष्ट्वोक्तम् । लोकरक्षणार्थ मया क्व प्रविश्यते । मुनिनोक्तम्-अतसीशाखामवलम्ब्य कुण्डिका तिष्ठति । तत्र प्रविश । प्रविष्टः। तत्र सप्तसागरान् दृष्टवान् । क्षीरसागर मध्यस्थितद्वादशयोजनमध्यस्थितविस्तारवटवृक्षपत्रसंपुटमध्ये सुप्तः। भिक्षां गृहीत्वा आगतो ब्रह्मा तमपश्यन्नितस्ततो ऽवलोकयन् अगस्त्यं दृष्ट्वा पृष्टवान्-'भगवता हरिदृष्ट इति' । मुनिनोक्तम्-कमण्डलुमध्ये ऽवलोकय । ततः षण्मासान् विलोक्य तत्र सुप्तो दृष्टः। तदुदरे तिष्ठतीति ज्ञात्वा कयं प्रविश्यत इति यावच्चिन्तयति तावत्तेन जम्भः कृतः। तदवसरे प्रविश्य हरि भौ स्थितः । कमलनालच्छिद्रेण लोकं निःसार्य स्वस्य निर्गमने सर्वाङ्ग निर्गतम् । मुष्ककोशो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409