________________
पार्श्वकीर्तिविरचिता
ॐ भूर्भुवःस्वस्तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयादिति । अतञ्चास्या गायत्री नाम जातम् । तच्छ्रुत्वा लज्जितः प्रजापतिः । ततो निर्गच्छन् तस्या भण्डमुत्पन्नं ज्ञात्वास्य श्लोकस्यार्थं च स्मृत्वा, को ऽसौ श्लोकः ।
३६०
पुस्तकप्रत्ययाधीतं नाधीतं गुरुसंनिधौ ।
न शोभन्ते सभामध्ये जारगर्भा इव स्त्रियः ॥
इति लोकापवादभयेन तच्च लिङ्गाग्र णाकृष्यान्तर्मुष्कप्रदेशे स्थापितम् । ततो वातवृषाणी जातः । स एकदा भ्रमन्निन्द्रपुरीं दृष्टवान् । तत्र रम्भाप्रभृतोदृष्ट्वा कामाग्नितप्तचित्तः युद्धे इन्द्रपदवीं ग्रहीतुं न शक्यते । प्रार्थने कि कलत्रदानमस्ति, वृथावचनं भविष्यतीति तपसा सर्व साध्यं भवति । तथा चोक्तम्
यद्दूरं यदुराराध्यं यच्च दूरे व्यवस्थितम् । तत्सर्वं तपसा साध्यं तपो हि दुरतिक्रमम् ॥
इति पर्यालोच्य इन्द्रपदव्यर्थं साधं दिव्यवर्षसहस्रत्रयं तपः कर्तुं लग्नो ब्रह्मा । तं ज्ञात्वा सचिन्तः शचीपतिर्बृहस्पतिना भणितः । किमिति सचिन्तः । तेन सर्वंस्मिन् कथिते बृहस्पतिर्बंभाणतावत्तपो वपुषि चेतसि तत्त्वचिन्ता कामं हृषीकविजयः परमः शमश्च । यावन्न पश्यति मुखं मृगलोचनानां शृङ्गारवृत्तिभिरुदाहृतकामसूत्रम् ॥
इति तत्र तत्तपोविनाशाय वनिता प्रस्थापनीया । तद्वचनेनेन्द्रेण स्वदेवीनां रम्यप्रदेशं तिलप्रमाणं गृहीत्वा तिलोत्तमानाम्नी वनिता कृता । प्रेषिता च तत्र तया गत्वा नृत्ये क्रियमाणे स उद्घाटितदृष्टिः त्यक्ताक्षमालिको भूत्वा द्रष्टु ं लग्नः । तं ज्ञात्वा तया दक्षिणस्यां दिशि नृत्ये कृते, यदि तन्मुखो भूत्वावलोकयामि तह सर्वैर्हास्य इति मत्वा दिव्यवर्षसहस्रतपश्चरणफलेन अपरं मुखं कृत्वावलोकितवान् । तथा पश्चिमोत्तरयोरपि । उपरि नर्तने सति पञ्चशतवर्ष तपः फलेन गर्दभशिरो निर्गतम् । तच्च गगनतलं व्याप्नुवत् सुरविद्याधरादीन् गिलितुं लग्नम् । तदिन्द्रादिदेवोपरोधेन हरेण नखैश्छिन्नम् ।
तस्य भिन्ना कथा । एकस्मिन् ग्रामे गङ्गामार्गे धवलवत्सः अवशोषितस्तेन तद्ब्राह्मणी हता । ब्रह्महत्यातः कृष्णो जातः । ततो भणितम् - तव स्वामिनीहत्यया पापं जातम् । तत्परिहारार्थं प्रातर्गङ्गां गच्छेति श्रुत्वा चलितः । महादेवेनाकर्ण्य भणितम् । तथा करिष्यानि पापपरिहारार्थम् । एवं पञ्चमहापातकानि तत्प्रसादाद् गतम् [ गतानि ] ततः प्रभृति वृषभवाहनः । सा स्वगं गवा | संक्षितकामाग्निकः तामपश्यन् अच्छभल्लीमनुभुक्तवान् । तया तच्छरीरं नखै विदारितम् । तत्प्रभृति मनुजाः तथा प्रवर्तितु लग्नाः । तस्या जाम्बूनदो नाम पुत्रो जातः । ततो देवैर्हसितो लज्जितः सन् भ्रमितुं लग्नः ।
Jain Education International
एकदामरावतीबाह्ये उर्वशीं नाम वेश्यां दृष्ट्वा स्ववचनकौशलेन स्वानुरक्तां कृत्वा तथा सह क्रीडासमये तदण्डं स्वलिङ्गाग्रेणाकृष्य तद्गर्भे निक्षिप्तम् । सा च वसिष्ठं नाम पुत्रं प्रसूता । ब्रह्मा स्वपदवीं तस्मै दत्त्वा तपोऽर्थी गतः । इतः सर्वशास्त्रकुशलेन वसिष्ठेनैकदा द्विजेभ्यो नमस्कारश्चक्रे । न च तैः प्रत्यभिवादितः । तेनोक्तम्- किमिति न प्रत्यभिवादितोऽहम् । तैरुक्तम् - एवंविधो ऽसीति । ततो ऽसौ लज्जया वेद पर्वते तपः कतु लग्नः । वृद्धो भूत्वा इदानों मम तपोविघ्नं नास्तीति भ्रमितुं लग्नः । एकदा एकस्मिन् ग्रामे अक्षमालिकानाम्नों चाण्डालीं दृष्ट्वा
For Private & Personal Use Only
www.jainelibrary.org