________________
धर्मपरीक्षाकथा
३५९ तदनु गौरी रुष्टा । गाहा।
ता गउरी तोसविया पाए पडिऊण परमदेवेण ।
सो तुम्हं देउ सिवं परमप्पो विग्धविलयेण ॥ तदनु गौर्या चिन्त्यते
सन्ध्या रागवतो स्वभावचपला गङ्गा द्विजिह्वः फणी चन्द्रो लाञ्छनवक्त्र एव मलिनो जात्यैव मूर्यो वृषः । कष्टं दुर्जनसंकटे पतिगृहे वस्तव्यमेतत्कथं
देवी व्यस्तकपोलपाणितलका चिन्तान्विता पातु वः ॥ तदनु शंकरेण गङ्गा मस्तके ऽर्धाङ्गे गौरी धृता । ततो ऽतीव संतुष्टा। तदुक्तम्
अलिनीलालकमुग्रभासुरजट लोलाक्षमुग्रेक्षणं । तिलकाध नयनार्धमुन्नतकुचं रम्योरुवक्षःस्थलम् । खट्वाङ्गं फणिकङ्कणं सुवसनं व्याघ्राजिनं लीलया
शान्तं भीषणमधनारिघटितं रूपं शिवं पातु वः ॥ इति अदत्तां स्वीकुरुते यो गंगा दत्ता छायां त्यजतोति । पुनस्तयोक्तम्-तहि ब्रह्मणः पाश्र्वे स्थाप्यते। तेनोक्तम्-नोचितम् । किमिति । कि त्वया पुष्करब्रह्माण्डजपुराणानि न श्रुतानि । तहि निरूप्यते मया।
___ महेश्वरस्य गौर्या विवाहकाले ब्रह्मा पुरोहितो ऽभूत् । अग्निकुण्डप्रदक्षिणीकरणकाले गौर्याः जङ्घाप्रदेशं दृष्ट्वा ब्रह्मणः शुक्रक्षरणे जाते कियत् कलशमध्ये पतितम् । तत्र द्रोणाचार्योऽभूत् । वृषभपादगतस्थितोदके कियत् पतितम् । तत्र वालखिल्यादयः सप्तकोटिऋषयो जाताः। तदनु लज्जया गच्छतः कियद् वल्मीकस्योपरि पतितम् । तत्र वाल्मीकिनामा ऋषिरुत्पन्नः। तदन्वग्रे गच्छतः भस्मनि कियत्पतितम् । तत्र भूरिश्रवा जातः। ततोऽने गच्छतो ऽस्थिन कियत्पतितम् । तत्र शल्यो जातः। तदन्वग्रे गच्छतः कियत् स्थले पतितम् । तत्रोर्वशी जाता। तदन्वने लिंग वामकरेण धृत्वा गच्छत उपरि धारा उच्छलिताः। तत्र शक्तिना कियगिलितः [तम् ] । तत्र शक्तिनामा क्षत्रियो जातः। ततो गच्छन्ने कस्मिन् प्रदेशे लिङ्गं धृत्वा तथापि शुक्रं तिष्ठति नो चेति कम्पितवान् । तत्र कियत् पतितम् । तत्र पद्मा नाम कन्या जाता। सुरूपां तां दृष्ट्वा गृहीत्वा स्वावासं गतः । कालेन सयौवनामभिवोक्ष्यासक्तः सन् भणति । हे पुत्रि मामिच्छ । तयोक्तम्-त्वं पिता। किमेवमुचितम् । तयोक्तम् -किं त्वया वेदो न श्रुतः। न । तहि शृणु। मातरमुपैति स्वसारमुपैति पुत्रार्थो, न च कामार्थो । तथापरमपि-नापुत्रस्य लोको ऽस्ति तत्सवं पशवो विदुः । तस्मात् पुत्रार्थ मातरं स्वसारं वाधिरोहति । संतानवृद्धयर्थं त्वयाभ्युपगन्तव्यम् । इत्यादिवचनालापेन स्ववशोकृता। तदनु तव चित्ते मम चित्तं संदधामि, तव हृदये मम हृदयं संदधामि, तवास्थिषु ममास्थोनि संदधामि, तव प्राणे मम प्राणमिति स्वाहा। त्र्यम्बक मन्त्रः । इमं मन्त्रमुच्चार्य सेवितुं लग्नः यावद्दिव्यषण्मासान् तदनु सर्वैर्देवैत्विा मणितम्-निकृष्टो ब्रह्मा पुत्रों कामयते। अत्र पर्यालोच्य तैर्गन्धर्वदेवाः प्रेषिताः ब्रह्मणः संयोगं विनाशाय ते इति [विनाशयतेति ] । तैरागत्य सुरतगृहनिकटे चिन्तितम् । कथम् । यदि सहसास्यान्तरायो विधीयते तदा कुपितः सन् अनर्थ करिष्यति । इति पर्यालोच्य तैर्गोतम् । कथम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org