________________
३५८
पार्श्वकीर्तिविरचिता
अपूर्वं दशनमस्माकं केन दृष्टमिदं भुवि । उन्मत्तो वा पिशाचो वा इति तेषां विचारणा ॥
कैश्चिदुक्तम् - अयमीश्वरो मुक्ति गन्तुमुद्यतो ऽभूदिति । केचिदुक्तम् - यद्येवंविधो मुक्ति गच्छति नरकं को गच्छेदिति । तथा चोक्तम्
रज्ज्वा बध्नाति वायुं मृगयति स जले मत्स्यकानां विभागं बन्ध्यस्त्रीषण्डकानामभिलषति सुतं वालुकाम्यश्च तैलम् । दो गन्तुं पयोधि झषकुलकलिताङ्गो विषाणे ऽपि दुग्धं सर्वारम्भप्रवृत्तौ नरपशुरिह यो मोक्षमिच्छेत् सुखानि ॥
कैश्चिदुक्तम् - शिवोऽयं कृतकृत्य इति । कैश्चिदुक्तम् - यद्येवं शिवः तर्हि शैवसिद्धान्तस्य विरोधो भवति । सिद्धान्तः कः ।
पाताले चान्तरिक्षे दश दिशि भवने सर्वशैले समुद्रे
काष्ठे लोष्टेष्टिकाभस्मसु जलपवने स्थावरे जङ्गमे वा । बीजे सर्वोषधीनामसुरसुरपुरे पत्रपुष्पे तृणाग्रें
सर्वव्यापी शिवोऽयं त्रिभुवनभवने नास्ति चेदन्य एव ॥ इत्यादि ।
सर्वव्यापिनो गमनागमन संभवश्चेत्यादिविकल्पानुत्पादयन् हिमवगिरिसमीपं गतः । तद्गिरेर्या पूर्व मृता सती गौरी नाम्नी पुत्री बभूव । पर्वतस्य कथं दुहितेति चेदाह । पूर्वं सर्वेषां पर्वतानां पक्षाः सन्ति । पक्षिण इव खे चरन्तः एकदा अमरावतीं गताः । तत्र चेन्द्रवनं भक्षित्वा रोमन्थं वर्तयन्तः स्थिताः । इन्द्रेण दृष्ट्या कोपेन वज्रायुधेनाहत्य पातिताः । हिमवद् गिरिर्मेना नाम स्त्रीगिरेरुपरि पतितः । तदेवावसरे तस्याः जीवो मध्ये ऽभूत् । तयोः संघट्टनेन पुत्री बभूवेति । स्फुलिङ्गमध्ये उत्पन्नेति तस्याः कामाग्नेः उपशान्तिर्नास्तीति तेन दृष्ट्वा च याचिता च प्राप्य विवाहिता । तथा सह कैलासे तिष्ठन् एकस्मिन् दिने बहिगंत्वागत्य द्वारे स्थित्वा प्रिये द्वारसुद्घाटयेत्युक्ते तयोक्तं वक्रोक्त्या ।
Jain Education International
कोऽयं द्वाराग्रतो ऽस्थाद्वदति पशुपतिः किं वृषो नो ऽर्धनारी, fi पिण्डो नैव शूली किमपि च सरुजो न प्रिये नीलकण्ठः । ब्रूहि त्वं किं मयूरो न हि विदितशिवः कि पुराणः शृगालः इत्येव हैमवत्या चतुरनिगदितः शंकरः पातु युष्मान् ॥
इति कैलासे गौरीसमेतः शंकरस्तिष्ठति । प्रतिदिनं गङ्गायां स्नानार्थं गच्छति । एकस्मिन् दिने गङ्गाकुमारी सुरूपां दृष्ट्वा विशिष्टरूपेण तन्निकटं गत्वोक्तवान् का त्वमिति । तयोक्तम्गङ्गा । तेनोदितम् - को भर्ता । तयोक्तम्- यो ऽद्वितीयः स मे भर्ता । न तादृशः को ऽप्यस्ति । सबभाण - अहमेव तथा । इति भणित्या परिणोता। तथा सह कामक्रीडां करोति । शिवाभीत्या तां तत्रैव निधाय कैलासं गतः । साध्यवलोकयन्ती तत्रागता । तथा गौर्या सह सारैः क्रीडन्नीश्वरो दृष्टः । तां दृष्ट्वा गौर्योक्तम्
का त्वं सुन्दरि जाह्नवी किमिह ते भर्ता हरो नन्वयम् अम्भस्त्वं किल वेत्सि मन्मथरसं जानात्ययं त्वत्पतिः । स्वामिन् सत्यमिदं न हि प्रियतमे सत्यं कुतः कामिनीमित्येवं हरजाह्नवीगिरिसुतासंजल्पनं पातु वः ॥
For Private & Personal Use Only
www.jainelibrary.org