SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षाकथा कर्णयोरश्विनीदेवा चक्षुषोः शशिभास्करौ । गवां शृङ्गाग्रे भ्रुवोश्च सुरेन्द्रविष्णुभ्यां स्थितम् ॥२ मुखे ब्रह्मोरसि स्कन्दो ललाटे च महेश्वरः । ककुदे च जगत्सर्वं नक्षत्रग्रहतारकाः ॥३ ऋषयो रोमकूपेषु तपः कुर्वन्ति सर्वदा । अपाने सर्वतीर्थानि प्रभवणे च जाह्नवी ॥४ गोमये तु श्रिया देवी रामो लाङ्गूलमाश्रितः । चत्वारः सागराः पूर्णाः गवाङ्गेषु पयोधराः ॥५ खुरेषु जम्बुको देवः खुरान ेषु च पन्नगाः । जठरे पृथिवी सर्वा सशैलवनकानना ॥६ इति गोशरीरे सर्वमध्यारोप्य तस्या हननार्थं तेन सूत्रमकारि । तद्यथा— श्रोत्रयज्ञे सुरापानं गोसवे गव्यसंगमम् । गवां महे पशुं हन्यात् राजसूये च भूभुजम् ॥ इति । अग्निष्टोमाय पशुमालभेत । श्वेतगजमालभेत भूरिकामः । ब्राह्मणो ब्राह्मणमालभेत क्षत्रियो राजन्यं मरुद्वैश्यं तपसे शूद्रं तपसे तस्करं नरकाय वैरहणं पाप्मने क्लीबम् आकल्ययो रङ्काय शूलम् । तरति लोकः । कं तरति पापं तरति ब्रह्महत्याम् । यो ऽश्वमेधेन युध्येत न कुलतथ्यो विधिः । अनुक्रमेण कुर्यात् । इत्यादयश्चतुरशीतिर्महायज्ञाः उदिताः क्षुल्लकयज्ञाश्च । तथा इदमपि - अब्रह्मणे मृगशावे च प्रत्यक्षमृतदर्शने । तत्क्षणे खावयेत्पुण्यं त्यक्तं चेन्नरकं व्रजेत् ॥ इत्यादि । तत्र च सर्वे देवा आहूताः । गमने नृत्यन्महेश्वरः सतीसमन्वितो यावदागच्छति तावद्देवैः सती देहस्थितान् नखक्षतादीन् दृष्ट्वा उपहसितम् । अहो प्रजापतेः पुत्रीसौख्यमिति । ब्रह्मा दृष्ट्वा लज्जितः । तथा सूत्रं कृतवान् । कीदृशम् । Jain Education International ३५७ विद्यावृत्तविहीना ये शूद्रकर्मोपजीविनः । सन्ति दूषकाः श्राद्धे नाङ्गहीना गुणान्विताः ॥ इति स शूद्रकर्मोपजीवीति तेन अवज्ञातः । सती च स्वावज्ञां दृष्ट्वा कोपेन जिह्वामुन्मूल्य ब्रह्मण उपरि निक्षिप्य होमकुण्डं प्रविश्य मृता । महेश्वरः कोपेन तदग्निकुण्डस्य विध्यापनं कृत्वा योगेन ग्रहिलो भूत्वा हा सती महासती केन नीतेति शोकं कृतवान् । तदनु तद्भस्मोद्धूलिताङ्गः तदस्थीनि मस्तकललाट कर्णकण्ठादिप्रदेशेषु बन्धयित्वा तत्कपालापितहस्तो महेश्वरो देवारण्यं प्रविष्टः । तत्र तं भ्रमन्तं दृष्ट्वा कामदेवो हसितुं लग्नः । कथम् । अयं स भुवनत्रयप्रथितसंयमः शंकरो बिर्भात वपुषाधुना विरहकातरः कामिनीम् । अनेन खलु निर्जिता वयमिति प्रियायाः करं करेण परिताडयन् जयति जातहासः स्मरः ॥ इति । ततस्तापसैर्दृष्ट्वा चिन्तितम् - को ऽयमिति । केचिदुक्तम् - कश्चित्सिद्ध इति । कैश्चिदुक्तम् For Private & Personal Use Only www.jainelibrary.org
SR No.001425
Book TitleDharmapariksha
Original Sutra AuthorAmitgati Acharya
AuthorBalchandra Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year1998
Total Pages409
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & religion
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy