________________
३५६
पावकीतिविरचिता ज्ञात्वा सचिन्तो यज्ञस्तदुपदेशेन मृतकद्वयम् उभयशयनस्थाने निक्षिप्य गृहं प्रज्वाल्य यज्ञां गृहीत्वा गतः। एकस्मिन् ग्रामे स्थितः । आगतो विप्रः शोकं विधाय सूत्रस्यार्थमवधार्य, किं तत्सूत्रम् -
यावदस्थि मनुष्याणां गङ्गातोयेषु तिष्ठति ।
तावद्वर्षसहस्राणि स च स्वर्गे महीयते ॥ ___ इत्युभयास्थीनि तुम्बयोनिक्षिप्य गङ्गां चलितः । ताभ्यामावासितग्रामसमीपं गच्छन्नुभान्यां दृष्टः । तदनु पादयोः पतितौ। युवां काविति पृष्टे अहं यज्ञः इयं यज्ञेति निरूपिते विजानातीति। नेदृशः कोऽपि विद्यते, कथय । स आह ।
एकस्मिन् ग्रामे केनचिद्यजमानेन भौतिका आमन्त्रिताः । ते च माण्डव्यं नाम ऋषि दृष्टवा कोपात सर्वे निर्गताः। यजमानेन किमित्युक्ते, अयमपुत्रको निःकृष्टः । अस्य पङ्क्तौ भोक्तुं न यातीति तैरुक्ते माण्डव्येनोक्तम्-अपुत्रस्य को दोषः । तैरुक्तम्
अपुत्रस्य गतिनास्ति स्वर्गो नैव च नैव च ।
तस्मात् पुत्रमुखं दृष्ट्वा पश्चाद्धर्म समाचरेत् ॥ ___ इति वचनान्महादोषः। पुनस्तेनोक्तम्-अहं वृद्धः। तपसा क्षोगविग्रहः । इदानों मह्यं कः कन्यां प्रयच्छतीति । तैरक्तम्-स्वयेदं वेदवाक्यं न श्रुतम् ? किं तत् ।
नष्टे मृते प्रवजिते क्लोबे च पतिते पतौ। पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ॥ अहिवीचीपिबत्तीया यदि पूर्व वरो मृतः। सा चेदक्षतयोनिश्च पुनः संस्कारमर्हति ॥ अष्टौ वर्षाण्युदीक्षेत ब्राह्मणी प्रोषितं वरम् । अप्रसूता च चत्वारि परतो ऽन्यं समाचरेत् ॥ इति । मात्रा पुत्र्या भगिन्यापि पुत्रार्थ प्रार्थ्यते नरः।
यो ऋतौ न भजेत्पुमान् स भवेद् ब्रह्महा पुनः ॥ तद्वचनेन तेन स्वभगिनी डंडिमा नाम रण्डा परिणोता। तयोः पुत्री छाया जाता। शैशवावसाने तीर्थस्नानाथं गच्छद्भ्यां पुत्री कध्रियते इति पर्यालोच्य मात्रोक्तम्-महादेवनिकटम् । तेनोक्तम्-नोचितम् । किमिति । स तवृत्तान्तमाह ।
पूर्वमिहलोके वनितारूपमपि नास्ति। सर्वे देवा मदनाग्नित[त ] मा बभूवः । ब्रह्मकदा देवारण्यं वनं प्रविष्टः। तत्र च विशिष्टफलाहारेणातिकामोद्रेके सति एकस्मिन् देशे शुक्रमातो बभूव । तत्तु परीवाहरूपेण वोढुं लग्नम् । तत्र त्रयस्त्रिशत्कोटिसतीप्रभृतयो देवया उत्पन्नाः । सतो शिवाय अन्या अन्येभ्यो देवेभ्यो दत्ताः। प्रजापतिरेकदा मांसादौ लोलुपो भूत्वा चिनायति स्म । यदि मयैतद्भक्षणं विधीयते तहि सर्वैर्हस्ये। तद् यथा सर्वे ऽपि भक्षयन्ति तथोपायं करोमोलि यज्ञ प्रारब्धवान् सूत्राणि विधाय । कथम् ।
गोसवित्रं प्रवक्ष्यामि सर्वपापविनाशकम् । दन्ताग्रेषु मरुदेवो जिह्वाग्ने च सरस्वती ॥१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org