________________
धर्मपरीक्षाकथा
३५५ प्रविष्टः । तयोदितम्--अत्र किमित्यागतो ऽसि । गच्छ, यत्र प्रतिपाद्य प्रेषितम् । स कथमपि न गच्छति । तवा निर्भत्सितः। ततो गत्वा तत्र भोजनावसरे तेनोक्तम्-कुरङ्गीगृहात शाकं गृहीत्वागच्छेति। सा[ तथा ] तद्गृहं गत्वा द्वितीयवारे तया दत्तं क्षीणबलोवर्धिचणकमिश्रितगोमयमानीतम् । तदुक्तं तेन समीचीनं जातमिति । ततो भुक्त्वा तद्गृहमागतः। बहुबुद्धिमनुष्येण कुरङ्गीवृत्तान्ते सर्वस्मिन् कथिते ऽपि मम वल्लभा किमेवं करोतीति तेन स एव निर्धाटित इति । तैरुक्तम्-न तथा कोऽपि विद्यते, कथय । स आह ।
नारायणो नन्दगृहे गां रक्षितवान्, सारथिश्चाभूत् । युधिष्ठिरपक्षेण दुर्योधननिकटे दूतत्वं गतः। तथा नित्यो ऽपि जननजरामरणान्वितः । तथा चोक्तम्
मत्स्यः कूर्मों वराहश्च नारसिंहो ऽथ वामनः ।
रामो रामश्च कृष्णश्च बुद्धः कलङ्की च ते दश ॥ कि तस्य तत्क्रोडनमनुष्ठानं वा। यथा तस्य तथावयोरपोति । निरुत्तरं जित्वा उद्यानं गत्वा समये वासुदेवोत्पत्ति निरूपितवान् । तदा समये हरिवंशो निरूप्यते। इह न निरूपितो प्रन्थगौरवभयात्।
द्वितीयदिने किरातवेषेण शतच्छिद्रघटस्थं मार्जारं गृहीत्वागत्योत्तरगोपुरे तत्क्रमेणोपविष्टौ। द्विजैस्तत्क्रमेण वचनं कृतम् । बिडालविक्रयणार्थमागतौ। किं मूल्यम् । द्वादशसहस्त्रद्रविणम् । द्विजैरुक्तम्-एतत्सामथ्यं किम् । तेनोक्तम्-द्वादशयोजनमूषिकानागमनम् । दत्ते द्रव्ये तेनोक्तम्परीक्ष्यताम्। तैरक्तम् -कर्णरुधिरं किम् । मार्गे एकस्मिन् गृहे आवां पथश्रान्तौ सुप्तौ। तत्रास्य कर्ण आखुभिभक्षितः । विप्रैरुक्तम्-अहो असत्यमेतत्सामर्थ्यम् । तेनोक्तम्-किमेकेन दोषेण बहुगुणविनाशो भवति । तैरभाणि-नो चेद् गुणान् प्रतिष्ठापय । स बभाण-किमत्रागडदर्दुरसमो नरो न विद्यते कोऽपि । तैरुक्तम्-स कीदृशः। तेन अगडवदुरराजहंसवृत्तान्तः कथितः । कथम् ।
एकस्मिन् कूपे मण्डूकस्तिष्ठति । तत्र राजहंसः समायातः । तेनागमनेन [ गडेन ] पृष्टे समुद्रादागतो ऽहमिति निरूपितं हंसेन । तत्प्रमाणे पृष्टे महानिति निरूपितम्। कि कूपादपि महानित्युपहसितं भेकेनेति । न कोऽपि तत्समो ऽत्र विद्यते, कथय । पुनस्तेनोक्तम्-तहि दुष्टकथाविधायको नास्ति । तैरभाणि-स कोदृक्षः । स आह ।
सौराष्ट्र कोटिकग्रामे स्कन्धबन्धौ [ को ] ग्रामण्यौ अन्योन्यं न सहेते। बंकस्य व्याधिना कण्ठगतप्राणावसरे पुत्रेणोक्तम्-हे पितः, धर्म कुरु। तेनोक्तम्-अयमेव धर्मः । मयि मृते मृतकं गहोत्वा गच्छ । स्कन्धगन्धशालिक्षेत्रे मञ्चिकास्तम्भावष्टब्धं तद्विधाय गोधनं प्रवेशय। स मां गोपालं मत्वा यदा हन्ति तदा त्वया मम पिता हत इति कोलाहलो विधेयः। तथा कृते स्कन्धो राज्ञा सर्व दण्डित इति । द्विजैरभाणि-फिमोदग्विधः को ऽपि विद्यते। कथय । स बभाण-कथ्यते यदि मूढसदृशो नरो ऽत्र न विद्यते। तैः स कथमिति पृष्ट आह ।
कोष्टोष्टनगरे भूतमतिनामा विप्रो व्रतारोपणानन्तरं त्रिंशद्वर्षाणि वेदाध्ययनं कृत्वा प्रपठ्य यज्ञां नाम कन्यां परिणीतवान् । अतिशयेन तदासक्तो बभूव । एकदा पोतनाधिपेन यज्ञकृतौ स आहूतः सन् तस्या निकटं यज्ञनामानं विद्याथिनं प्रतिष्ठाप्य गतः । इतस्तया यज्ञो भणितः। किमिति मनुष्यजन्म निःफलीक्रियते । मामिच्छ । बहुवचनैरिष्टा तेन । तत उभौ यथेष्टं स्थितौ । तदागमनं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org