________________
३५४
पाश्वंकीतिविरचिता व्याधयः। मधुबिन्दवः सुखमिति । यथैतत्सुखं तथा संसारिजीवस्येति । तन्निरूपणानन्तरं मनोवेगेन पृष्टो भगवानाह। पवनवेगधर्मग्रहणकारणम् ।
पाटलिपुत्रे पुरे परपुराणप्रतिव्यूहवेषेण गत्वा तत्पुराणासारदर्शनं कथितं भगवता। श्रवणानन्तरं हृष्टो मनोवेगः । तं प्रणम्य स्वपुरं गच्छन् सन् सुखमागच्छता पवनवेगेन दृष्टः । तदनु है मित्र, मां विहाय क्व गतोऽसि । सर्वत्रावलोकितो ऽसि । दर्शनाभावे ऽत्राहमागतः। इति भणिते मनोवेगेनोक्तम् । भरतस्यानजिनालयान् पूजयितुं गतः। पूजयित्वा गमनसमये बहुशिवालयविष्णुगृहब्रह्मशालाद्यलंकृतं, एकदण्डित्रिदण्डिहंसपरमहंसशैवपाशुपतभौतिकादिलिङ्गिप्रचुरं, ब्राह्मणवेदघोषपूर्णायमानं, पाटलिपुत्राख्यं नगरं दृष्ट्वा भ्रान्त्यावलोकयन् स्थितः। ततो ऽत्रागत इति। तेनोक्तम्-विरूपकं कृतम् । मां विहाय व गतो ऽसीति, तन्मे दर्शनीयम् । प्रातः प्रदर्श्यले यदि मम भणितं करोषि। तत्किम् । तत्र गते न विचारयित्वा मौनेन स्थातव्यम् । इति क्रियत एव । ताँवं भवत्विति स्वपुरं गतौ।
ततो ऽपरदिने तन्नगरं गत्वा तदुद्याने स्वविमानं गुप्तं विधाय तुणकाष्ठभाराक्रान्ती सालंकारौ तन्नगरपूर्वगोपुरस्थितब्रह्मशालां वितण्डावादपूर्वकं धर्मपरीक्षार्थ गत्वा भेरोरवपूर्वक मनोवेगः सिंहासने उपविष्टः। भेरोरवेणागतैविप्रविष्ण्वादिविकल्पेन नमस्कारपूर्वक, कस्मादागतो, कस्मिन् शास्त्रे परिचयो ऽस्तीत्युक्ते, न कस्मिश्चिदित्युक्ते, तहि भेरीरवः सिंहासनोपवेशनं वा किमर्थम् । वादार्थिना हि भेरोरवः कार्यः। वादे जित्वा सिंहासने उपवेश्यम् । अस्मत्पुरे एवं रोतिः । एवं भवत्विति । तदा तस्मिन् भूमौ उपविष्टौ अकिंचित्करं मत्वा। भवादृशां नीचाचरणं किमिति तैरुक्ते, एतदन्यत्रापि समानम् । कथम् । बिभेमि क पयितुम् । मा भैषोः । तहि भवतां मनसि दूध को भविष्यामि । ननु भोः कथं दूषकता । यतः
निन्द्ये वस्तुनि का निन्दा स्वभावगुणकीर्तनम् ।
अनिन्धं निन्द्यते यत्तु सा निन्दा [ दूष्यतां ] नयेत् ॥१ पुनरुक्तं तेन । कि षोडशमुष्टिकथाकारको नरोऽत्र न विद्यते । स कीदृशः।
मलयदेशे शलगलग्रामे भ्रमरस्य पुत्रो मधुकरगतिः। कोपान्निर्गत्य परिभ्रमन आभीरदेशं गतः। तत्र चणकराशीन् दृष्टवास्मद्देशमरोचराशय इवेत्युक्ते तत्रान्यरस्मद्देशमुपहसत्ययम् । दुष्टो निगृहीतव्यः, इत्यष्टमुष्टोन गृहोतः [ग्राहितः] । स तान् लब्ध्वा परिभ्रमणं विरूपमिति पुनः स्वदेशं गतः। तत्र सरीचराशीनवलोक्याभोरदेशे चणकराशय इव, इत्युक्ते तत्रापि तथा लब्धवानिति । नैको ऽपि ईदृशो ऽस्ति, कथय । पुनरुक्तं तेन । अत्यासक्तकथा न क्रियते । तैरुतस् । सा किविधा। स प्राह।
रेवानदोदक्षिणतटयां सामंतग्रामे प्रामकूटकस्य बहुधनिनो द्वे भार्ये । सुन्दरी कुरङ्गी च । सुन्दरी पुत्रमाता। दुभंगा विभिन्नगृहे तिष्ठति । स राजवचनेनैकदा मान्याखेटं पुरं गतः। इतः कुरङ ग्याः सर्वद्रव्यं जारैक्षितम् । गृहे तन्नास्ति यद् भुज्यते। फियति काले गते आगसेन बहुधनिना कुरङ्ग गृहं पुरुषः प्रेषितः । प्रभुरागतो मज्जनभोजनादिसामनो विधातव्येति । तया चिन्तितम् । अत्र किंचिन्नास्ति । किं क्रियते । इति पर्यालोच्य सुन्दरोगृहं गत्वा भगति । हे अक्क, प्रभुरागतः । त्वया तद्भोजनादिसामग्री विवातव्येति । तयोक्तम्-स कि मम गृहे भुङ्क्ते । कुरङ्गी भणति । मम भगितं करोति । एवं भवत्वित्यभ्युपगतं तया। स आगत्य कुरङ्गोगृहं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org