Book Title: Dharmapariksha
Author(s): Amitgati Acharya, Balchandra Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 377
________________ ३५६ पावकीतिविरचिता ज्ञात्वा सचिन्तो यज्ञस्तदुपदेशेन मृतकद्वयम् उभयशयनस्थाने निक्षिप्य गृहं प्रज्वाल्य यज्ञां गृहीत्वा गतः। एकस्मिन् ग्रामे स्थितः । आगतो विप्रः शोकं विधाय सूत्रस्यार्थमवधार्य, किं तत्सूत्रम् - यावदस्थि मनुष्याणां गङ्गातोयेषु तिष्ठति । तावद्वर्षसहस्राणि स च स्वर्गे महीयते ॥ ___ इत्युभयास्थीनि तुम्बयोनिक्षिप्य गङ्गां चलितः । ताभ्यामावासितग्रामसमीपं गच्छन्नुभान्यां दृष्टः । तदनु पादयोः पतितौ। युवां काविति पृष्टे अहं यज्ञः इयं यज्ञेति निरूपिते विजानातीति। नेदृशः कोऽपि विद्यते, कथय । स आह । एकस्मिन् ग्रामे केनचिद्यजमानेन भौतिका आमन्त्रिताः । ते च माण्डव्यं नाम ऋषि दृष्टवा कोपात सर्वे निर्गताः। यजमानेन किमित्युक्ते, अयमपुत्रको निःकृष्टः । अस्य पङ्क्तौ भोक्तुं न यातीति तैरुक्ते माण्डव्येनोक्तम्-अपुत्रस्य को दोषः । तैरुक्तम् अपुत्रस्य गतिनास्ति स्वर्गो नैव च नैव च । तस्मात् पुत्रमुखं दृष्ट्वा पश्चाद्धर्म समाचरेत् ॥ ___ इति वचनान्महादोषः। पुनस्तेनोक्तम्-अहं वृद्धः। तपसा क्षोगविग्रहः । इदानों मह्यं कः कन्यां प्रयच्छतीति । तैरक्तम्-स्वयेदं वेदवाक्यं न श्रुतम् ? किं तत् । नष्टे मृते प्रवजिते क्लोबे च पतिते पतौ। पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ॥ अहिवीचीपिबत्तीया यदि पूर्व वरो मृतः। सा चेदक्षतयोनिश्च पुनः संस्कारमर्हति ॥ अष्टौ वर्षाण्युदीक्षेत ब्राह्मणी प्रोषितं वरम् । अप्रसूता च चत्वारि परतो ऽन्यं समाचरेत् ॥ इति । मात्रा पुत्र्या भगिन्यापि पुत्रार्थ प्रार्थ्यते नरः। यो ऋतौ न भजेत्पुमान् स भवेद् ब्रह्महा पुनः ॥ तद्वचनेन तेन स्वभगिनी डंडिमा नाम रण्डा परिणोता। तयोः पुत्री छाया जाता। शैशवावसाने तीर्थस्नानाथं गच्छद्भ्यां पुत्री कध्रियते इति पर्यालोच्य मात्रोक्तम्-महादेवनिकटम् । तेनोक्तम्-नोचितम् । किमिति । स तवृत्तान्तमाह । पूर्वमिहलोके वनितारूपमपि नास्ति। सर्वे देवा मदनाग्नित[त ] मा बभूवः । ब्रह्मकदा देवारण्यं वनं प्रविष्टः। तत्र च विशिष्टफलाहारेणातिकामोद्रेके सति एकस्मिन् देशे शुक्रमातो बभूव । तत्तु परीवाहरूपेण वोढुं लग्नम् । तत्र त्रयस्त्रिशत्कोटिसतीप्रभृतयो देवया उत्पन्नाः । सतो शिवाय अन्या अन्येभ्यो देवेभ्यो दत्ताः। प्रजापतिरेकदा मांसादौ लोलुपो भूत्वा चिनायति स्म । यदि मयैतद्भक्षणं विधीयते तहि सर्वैर्हस्ये। तद् यथा सर्वे ऽपि भक्षयन्ति तथोपायं करोमोलि यज्ञ प्रारब्धवान् सूत्राणि विधाय । कथम् । गोसवित्रं प्रवक्ष्यामि सर्वपापविनाशकम् । दन्ताग्रेषु मरुदेवो जिह्वाग्ने च सरस्वती ॥१ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409