Book Title: Dharmapariksha
Author(s): Amitgati Acharya, Balchandra Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 376
________________ धर्मपरीक्षाकथा ३५५ प्रविष्टः । तयोदितम्--अत्र किमित्यागतो ऽसि । गच्छ, यत्र प्रतिपाद्य प्रेषितम् । स कथमपि न गच्छति । तवा निर्भत्सितः। ततो गत्वा तत्र भोजनावसरे तेनोक्तम्-कुरङ्गीगृहात शाकं गृहीत्वागच्छेति। सा[ तथा ] तद्गृहं गत्वा द्वितीयवारे तया दत्तं क्षीणबलोवर्धिचणकमिश्रितगोमयमानीतम् । तदुक्तं तेन समीचीनं जातमिति । ततो भुक्त्वा तद्गृहमागतः। बहुबुद्धिमनुष्येण कुरङ्गीवृत्तान्ते सर्वस्मिन् कथिते ऽपि मम वल्लभा किमेवं करोतीति तेन स एव निर्धाटित इति । तैरुक्तम्-न तथा कोऽपि विद्यते, कथय । स आह । नारायणो नन्दगृहे गां रक्षितवान्, सारथिश्चाभूत् । युधिष्ठिरपक्षेण दुर्योधननिकटे दूतत्वं गतः। तथा नित्यो ऽपि जननजरामरणान्वितः । तथा चोक्तम् मत्स्यः कूर्मों वराहश्च नारसिंहो ऽथ वामनः । रामो रामश्च कृष्णश्च बुद्धः कलङ्की च ते दश ॥ कि तस्य तत्क्रोडनमनुष्ठानं वा। यथा तस्य तथावयोरपोति । निरुत्तरं जित्वा उद्यानं गत्वा समये वासुदेवोत्पत्ति निरूपितवान् । तदा समये हरिवंशो निरूप्यते। इह न निरूपितो प्रन्थगौरवभयात्। द्वितीयदिने किरातवेषेण शतच्छिद्रघटस्थं मार्जारं गृहीत्वागत्योत्तरगोपुरे तत्क्रमेणोपविष्टौ। द्विजैस्तत्क्रमेण वचनं कृतम् । बिडालविक्रयणार्थमागतौ। किं मूल्यम् । द्वादशसहस्त्रद्रविणम् । द्विजैरुक्तम्-एतत्सामथ्यं किम् । तेनोक्तम्-द्वादशयोजनमूषिकानागमनम् । दत्ते द्रव्ये तेनोक्तम्परीक्ष्यताम्। तैरक्तम् -कर्णरुधिरं किम् । मार्गे एकस्मिन् गृहे आवां पथश्रान्तौ सुप्तौ। तत्रास्य कर्ण आखुभिभक्षितः । विप्रैरुक्तम्-अहो असत्यमेतत्सामर्थ्यम् । तेनोक्तम्-किमेकेन दोषेण बहुगुणविनाशो भवति । तैरभाणि-नो चेद् गुणान् प्रतिष्ठापय । स बभाण-किमत्रागडदर्दुरसमो नरो न विद्यते कोऽपि । तैरुक्तम्-स कीदृशः। तेन अगडवदुरराजहंसवृत्तान्तः कथितः । कथम् । एकस्मिन् कूपे मण्डूकस्तिष्ठति । तत्र राजहंसः समायातः । तेनागमनेन [ गडेन ] पृष्टे समुद्रादागतो ऽहमिति निरूपितं हंसेन । तत्प्रमाणे पृष्टे महानिति निरूपितम्। कि कूपादपि महानित्युपहसितं भेकेनेति । न कोऽपि तत्समो ऽत्र विद्यते, कथय । पुनस्तेनोक्तम्-तहि दुष्टकथाविधायको नास्ति । तैरभाणि-स कोदृक्षः । स आह । सौराष्ट्र कोटिकग्रामे स्कन्धबन्धौ [ को ] ग्रामण्यौ अन्योन्यं न सहेते। बंकस्य व्याधिना कण्ठगतप्राणावसरे पुत्रेणोक्तम्-हे पितः, धर्म कुरु। तेनोक्तम्-अयमेव धर्मः । मयि मृते मृतकं गहोत्वा गच्छ । स्कन्धगन्धशालिक्षेत्रे मञ्चिकास्तम्भावष्टब्धं तद्विधाय गोधनं प्रवेशय। स मां गोपालं मत्वा यदा हन्ति तदा त्वया मम पिता हत इति कोलाहलो विधेयः। तथा कृते स्कन्धो राज्ञा सर्व दण्डित इति । द्विजैरभाणि-फिमोदग्विधः को ऽपि विद्यते। कथय । स बभाण-कथ्यते यदि मूढसदृशो नरो ऽत्र न विद्यते। तैः स कथमिति पृष्ट आह । कोष्टोष्टनगरे भूतमतिनामा विप्रो व्रतारोपणानन्तरं त्रिंशद्वर्षाणि वेदाध्ययनं कृत्वा प्रपठ्य यज्ञां नाम कन्यां परिणीतवान् । अतिशयेन तदासक्तो बभूव । एकदा पोतनाधिपेन यज्ञकृतौ स आहूतः सन् तस्या निकटं यज्ञनामानं विद्याथिनं प्रतिष्ठाप्य गतः । इतस्तया यज्ञो भणितः। किमिति मनुष्यजन्म निःफलीक्रियते । मामिच्छ । बहुवचनैरिष्टा तेन । तत उभौ यथेष्टं स्थितौ । तदागमनं For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409