Book Title: Dharmapariksha
Author(s): Amitgati Acharya, Balchandra Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text
________________
धर्मपरीक्षाकथा
प्रणिपत्य जिनं भक्त्या स्याद्वादवरनायकम् ।
कथां धर्मपरीक्षाख्यामभिधास्ये यथागमम् ॥ तद्यथा-विपुलगिरौ धोरनाथसमवसरणे इन्द्रभूतिगणिना यथा श्रेणिकाय कथिता तथाचार्यपरंपरयागता संक्षेपेण मया निगद्यते ।
तद्यथा-जम्बूद्वीपभरतविजयादक्षिणश्रेणी वैजयन्तीपुरीनायजितारिवायुराजीवेगयोरपत्यं मनोवेगः । तत्रैवोत्तरश्रेणौ विजयपुराधीशप्रभाशविपुलमत्योरपत्यं पवनवेगः। तौ परस्परं सखित्वं गतौ । पुष्पदन्तोपाध्यायसमीपे शास्त्रास्त्रज्ञौ जाती। तदनु गौरीगान्धारीमनोहरोशीघ्रप्रज्ञप्तिप्रभृतिविद्याः साधितवन्तौ । तयोरेकस्वभावयोरपि मध्ये मनोवेगः सदृष्टिः सम्यग्दृष्टिरितरो विपरीतः।
एकदा मनोवेगो भरते आर्यखण्डस्थितान् जिनालयान् पूजयितुं गतः। अत्र कथान्तरम्सुकोशलदेशे अयोध्यायां राजा वासुपूज्यः । तन्मण्डलिकजयंधरसुन्दर्योः पुत्री सुमतिः। भीत्या वासुपूज्याय दत्ता। जयंधरस्य भागिनेयः पिङ्गलाख्यो रूपदरिद्रः। मां स्थिता कन्यानेन परिणीता। सांप्रतं मयास्य किंचित्कन शक्यते। भवान्तरे ऽस्य विनाशहेतुर्भवामीति तापसो भूत्वा मृतो राक्षसकुले धूमकेतुर्नाम देवो जातः । इतोऽयोध्यायां वासुपूज्यसुमत्योब्रह्मदत्ताख्यः पुत्रो जातः । एकदोज्जयिनोबाह्योद्याने ध्यानेन स्थितः। धूमकेतुना च दृष्टः। तद्वैरं स्मृत्वा तेन मुनेदुर्घरोपसर्गः कृतः। ततः स्वसंवेदनाख्यशुक्लध्यानबलात् समुत्पन्ने केवले देवागमो जातः। धनदेवेन तद्योग्या समवसृतिः कृता। सर्वान् जिनालयान् पूजयित्वा स्वपुरं गच्छतो मनोवेगस्य तदुपर्याकाशे विमानागतिरभूत् । किमित्यधोऽवलोक्य दृष्टे तस्मिन् हुष्ट: खगः। तत्र गत्वा तं स्तुत्वा स्वकोष्ठे उपविष्टः । धर्मश्रवणानन्तरं समुद्रदत्तवणिजा संसारिजीवसुखदुःखप्रमाणे पृष्टे दिव्यध्वनिना भगवान् दृष्टान्तद्वारेणाह।
कश्चित्पुरुषो नगरमार्गेण गच्छन् सार्थमध्ये होनो ऽटवीमध्ये गच्छन् विन्ध्यहस्तिना दृष्टः। तद्धयान्नश्यन्नन्धको पतितः । तन्मध्यस्थकाशमूलं धृत्वा स्थितः । करिणा तमप्राप्य तत्तटस्थवृक्षो दन्ताभ्यां हतः । तत्र स्थितमधुच्छत्रे कम्पिते तबिन्दुपतनावसरे ऊर्ध्वमवलोकितम् । तेन तबिन्द्रास्वादने कृते तन्मक्षिकाभिभक्ष्यमाणो ऽवलोकयन् तत्र काशमूलाग्ने मूषिकाभ्यां श्वेतकृष्णाभ्यां खण्डयमाने ऽधो ऽजगरं चतसृषु दिक्षु सर्पचतुष्टयं दृष्टवान् । तत्सर्वमवगणय्यापरो ऽपि बिन्दुः पतितश्चेत् समोचीनं मन्यते। तत्र नगरमार्गों मुक्तिमार्गः सम्यक्त्वम् । तत्परित्यागो ऽटवीमार्गः संसारमार्गो मिथ्यात्वम् । तत्राटवो संसारः। हस्ती मृत्युः । कूपः शरीरम् । वृक्षः फर्मबन्धः। मूलम् आयुः । मूषिको शक्लकृष्णपक्षौ । अजगरो दुर्गतिः । सर्पाः कषायाः । मक्षिका
४५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409