Book Title: Chandraprabha Hemkaumudi
Author(s): Meghvijay
Publisher: Jain Shreyaskar Mandal Mahesana

View full book text
Previous | Next

Page 470
________________ ४६४ इदमस्तु सन्निकृष्टं समीपतरवर्ति चैतदो रूपम् । अदसस्तु विप्रकृष्टं तदिति परोक्षे विजानीयात् ॥ ७ ॥ नकारजावनुखारपञ्चमी घुटि धातुषु । सकारजः शकारचे षवर्गस्तवर्गजः ॥ ८ ॥ उपसर्गेण धात्वर्थो बलादन्यत्र नीयते । विहाराहार संहारप्रहारप्रतिहारवत् ॥ ९ ॥ धात्वर्थी बाधते कश्चित् कश्चित्तमनुवर्तते । तमेव विशिनष्ट्यन्योऽनर्थकोऽन्यः प्रयुज्यते ॥ १० ॥ फलव्यापारयोरेकनिष्ठतायामकर्मकः । धातुस्तयोर्धर्मिभेदे सकर्मकमुदाहृतः ॥ ११ ॥ धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसंग्रहात् । प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया ॥ १२ ॥ नीवहिषो ण्यन्तादुहिब्रू पूच्छिभिक्षिविरुधिशास्वर्थाः । पचियाचिदण्डिकृग्रहमथिजिप्रमुखा द्विकर्माणः ॥ १३ ॥ न्यादीनां कर्मणो मुख्यं प्रत्ययो वक्ति कर्मजः । नयते गौर्द्विजैग्रामं भारो ग्राममथोह्यते ॥ १४ ॥ गौणं कर्महादीनां प्रत्ययो वक्ति कर्मजः । पयो दुह्यतेऽनेन शिष्योऽर्थं गुरुणोच्यते ॥ १५ ॥ बीजकालेषु सम्बद्धा यथा लाक्षारसादयः । वर्णादिपरिणामेन फलानामुपकुर्वते ॥ १६ ॥ बुद्धिस्थादपि सम्बद्धात्तथा धातूपसर्गयोः । अभ्यन्तर कृतो भेदः पदकाले प्रकाश्यते ॥ १७ ॥ निपाताश्चोपसर्गाश्च धातवश्चेत्यमी त्रयः । अनेकार्थाः स्मृताः सर्वे पाठस्तेषां निदर्शनम् ॥ १८ ॥ प्रपरापसमन्ववनिदुर्भि, वर्व्यधिदतिनिप्रतिपर्यपयः । उपआङिति विंशतिरेष सखे, उपसर्गगणः कथितः कविभिः ॥ १९ ॥

Loading...

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516