________________
४६४
इदमस्तु सन्निकृष्टं समीपतरवर्ति चैतदो रूपम् । अदसस्तु विप्रकृष्टं तदिति परोक्षे विजानीयात् ॥ ७ ॥ नकारजावनुखारपञ्चमी घुटि धातुषु । सकारजः शकारचे षवर्गस्तवर्गजः ॥ ८ ॥ उपसर्गेण धात्वर्थो बलादन्यत्र नीयते । विहाराहार संहारप्रहारप्रतिहारवत् ॥ ९ ॥ धात्वर्थी बाधते कश्चित् कश्चित्तमनुवर्तते । तमेव विशिनष्ट्यन्योऽनर्थकोऽन्यः प्रयुज्यते ॥ १० ॥ फलव्यापारयोरेकनिष्ठतायामकर्मकः । धातुस्तयोर्धर्मिभेदे सकर्मकमुदाहृतः ॥ ११ ॥ धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसंग्रहात् । प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया ॥ १२ ॥ नीवहिषो ण्यन्तादुहिब्रू पूच्छिभिक्षिविरुधिशास्वर्थाः । पचियाचिदण्डिकृग्रहमथिजिप्रमुखा द्विकर्माणः ॥ १३ ॥ न्यादीनां कर्मणो मुख्यं प्रत्ययो वक्ति कर्मजः । नयते गौर्द्विजैग्रामं भारो ग्राममथोह्यते ॥ १४ ॥ गौणं कर्महादीनां प्रत्ययो वक्ति कर्मजः ।
पयो दुह्यतेऽनेन शिष्योऽर्थं गुरुणोच्यते ॥ १५ ॥ बीजकालेषु सम्बद्धा यथा लाक्षारसादयः । वर्णादिपरिणामेन फलानामुपकुर्वते ॥ १६ ॥ बुद्धिस्थादपि सम्बद्धात्तथा धातूपसर्गयोः । अभ्यन्तर कृतो भेदः पदकाले प्रकाश्यते ॥ १७ ॥ निपाताश्चोपसर्गाश्च धातवश्चेत्यमी त्रयः ।
अनेकार्थाः स्मृताः सर्वे पाठस्तेषां निदर्शनम् ॥ १८ ॥
प्रपरापसमन्ववनिदुर्भि, वर्व्यधिदतिनिप्रतिपर्यपयः । उपआङिति विंशतिरेष सखे, उपसर्गगणः कथितः कविभिः ॥ १९ ॥