Book Title: Bharatiya Chintan ki Parampara me Navin Sambhavanae Part 2
Author(s): Radheshyamdhar Dvivedi
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text ________________
परम्परायां दर्शनानां ध्येयं तत्स्वरूपञ्च
आचार्य पं० विश्वनाथशास्त्रीदातार
वेदो नित्यमधीयतां तदुदितं कर्मस्वनुष्ठीयताम् । तेनेशस्य विधीयतामपचितिः काम्ये मतिस्त्यज्यताम् ॥
इति पद्येनेशस्य नाम गृह्णन् दर्शनानां ध्येयं तत्स्वरूपं च देशकालौचित्यानुसारेण विवेचयितुमभिलषामि । तथाहि
आपाततो विभिन्नं पन्थानं अनुसृत्य वेदार्थं साधयितुं शास्त्रसेवकांश्च वेदोदिते कर्मणि संप्रेरयितुं च प्रवृत्तानि सर्वाण्यपि दर्शनानि ईश्वरस्यापचिती विश्राम्यन्ति तथा, यथा वारः इतस्ततोऽभिवृष्टाः भिन्नगुणाः नदीमुखेन वारिधि प्राप्य विश्राम्यन्ति इति हि दार्शनिकानां सिद्धान्तः । नह्येतन्मते दर्शनानि स्वतन्त्राणि भवन्ति । यतः तानि वेदं विमुखीकृत्य आत्मानं रक्षितुमसमर्थानि पुरुषसंबन्धेनाप्रामाण्यादिदोषशंकाकवलितत्वात् । एवंविधेषु दर्शनेषु कतिपयानि आत्मतत्वं बोधयितुं प्रवृत्तानि कतिचन तदितरं वेदार्थ साधयितुं प्रसृतानि । अपराणि पुनः "वेदार्थस्य तत्साधनस्य याथार्थ्यं साधयितुं पूर्वपक्ष मुखेन समुपस्थितानि वर्तन्ते, न्यायादीनि, राजशास्त्रादीनि चार्वाकशास्त्रादीनि च इति । एतेषां दर्शनत्वं यथार्थतया तत्तद्वेदार्थदर्शनात् । तत्र वेदार्थस्य भेदेन दर्शनान्यपि आत्मतदितरान् अर्थात् अवस्थाभेदेन साधयन्ति । अवस्थाभेदश्व जगतो व्यवहारिकं सत्यत्वं पारमार्थिकं सत्यत्वं च । द्वितीयंशुद्धं निर्गुणं आनन्दात्मकं निर्धर्मकं ब्रह्म' नेह नानास्ति किंचन इत्यादिना श्रुत्यैव साधितत्वात् । प्रथमं व्यावहारिकं एतत् काले अवाधितं ब्रह्मप्रमातिरिक्तप्रमाऽवाध्यम् । अनयोः प्रथमे न्यायादीनि षट्शास्त्राणि अधिकृतानि भवन्ति । इतराणि तु व्यावहारिकसत्ये । तयोः ब्रह्मण एकत्वात्तस्य विविधता नास्ति, व्यावहारिके तु सा अस्ति । तद्यथा जगत्प्रतिष्ठा, आरोग्यं, पदार्थस्वरूपपरिचयः, अर्थस्यौचित्यानुसारेण विभजनादिसुप्रजोत्पत्तिरित्यादिः । सत्यप्येवं मतभेदे इदं सत् इदमसत् इति नात्र चिन्त्यम् उभयोरप्यवस्याभेदेन अभीप्सितत्वात् । यद्यपि १. ब्रह्मकमद्वितीयं स्यान्नाना नेहास्ति किंचन ।
मायेकं सर्वमज्ञानां भाति वेदान्तिनां मतम् ॥ शु० ४१४९ ॥ एवं परम्पराप्राप्तमिदं राजर्षयो विदुः ॥ भग० इति ॥
परिसंवाद - ३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366