Book Title: Bharatiya Chintan ki Parampara me Navin Sambhavanae Part 2
Author(s): Radheshyamdhar Dvivedi
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text ________________
३१८
भारतीय चिन्तन परम्परा की नवीन सम्भवनाएं वेदांगम् । एवमन्यानि कालापादीन्यपि सन्तीत्यन्यदेतत् । यदीदं न भवेत् तहि कौटिल्याभिमतस्य मन्त्रिपुरोहितसखे शब्दस्यार्थो ऽस्माभिः कथमवगतः स्यात् । वेदाभिमतानुस्यूतार्थनिरूपकत्वादिदं व्याकरणमपि दर्शनमेव ।।
सप्रजाजननविषयेऽभिधीयते 'आब्रह्मन ब्राह्मणो ब्रह्मवर्चसी जायता' मित्याशीवचनेन ब्रह्मवर्चस्विनं विप्रं राजन्यं शूरं प्रस्तौति। तसिद्धिः सुप्रजाजनेन संभवति । तदेतन्निरूपयितुं सर्वांगोपसंहारो यथा भवेत् तत् कामसूत्रं निर्मितवान् वात्स्यायनः । तत् यथार्थनिरूपणात् चक्षुष्ट्वात् दर्शनमेव ।
वार्ताशास्त्रस्यापि दर्शनत्वं पूर्वोक्तयुक्तयेव वेदार्थसाधनाय प्रवृत्तं सत् पूर्वत एव सफलं दृश्यते । एतत्साध्योऽर्थः प्रचुरःपुष्टान्नसमृद्धिः। साच वेदेनोदिता राज्यहिताय । तद्यथा यन्तु नदयो वर्षन्तु पर्जन्याः सुपिप्पला ओषधयः भवन्तु इत्यादि । सुभिक्षं पौष्टिक अन्नं च वेदाभीप्सितं देवतायै हवनीयं अन्नादिवार्ताशास्त्रमार्गेण संपादितायां कृष्यामेव संभवतीति । अतः यथार्थचक्षुष्ट्वात् वार्ताशास्त्रमपि दर्शनमेव ।
पश्येम शरदं शतं, जीवेम शरदां शतं इति मन्त्रैः सूर्यः संस्तूयते मध्यान्हसन्ध्यासमये तदुपासकैः। तदैवोदेतीयमाकांक्षापि सहैव कथं पश्येयम्, कथं वा जीवेयमिति । एतच्छमनाय आयुर्वेदशास्त्रं प्रवृत्तं आयुरारोग्यसमृद्धिकरं सर्वेषामुपकारायाभूत् इति आयुर्वेदशास्त्रमपि रोगिणं आरोग्यपथप्रदर्शकत्वात् दर्शनमुच्यते।
___ अतीन्द्रियादृष्टार्थप्रतिपादकमपि धर्मशास्त्रं धर्मो विश्वस्य जगतः प्रतिष्ठा इत्यादिश्रुत्यर्थं साधयितुं प्रवृत्तं धर्मोपासकेषु स्थायिप्रेम्णः असयामात्सर्येादिदोषरहितस्य समृद्धये समभूत् । यदीदं धर्मशास्त्रं न भवेत् तर्हि परलोकं कः परिचाययेत् इति तदपि स्वांशे च चक्षुषः कार्यं करोति अतो धर्मशास्त्रमपि दर्शनमेव ।
या किलेमनुभूतिः यत् न्यायाद्यतिरिक्तशास्त्रेषु पूर्वजैः दर्शनत्वं न व्यवहृतमिति यतः कौटिल्यप्रणीतेऽर्थशास्त्रे दर्शनत्वं कामन्देकेनोक्तम्
यदि शास्त्रं चक्षुः उपेक्षितं स्यात् तहि तद्धीनो मनुजोज्ञः मन्दान्धः किं किं न कुर्यात् सांप्रतम् । अतोप्येतद्धोषनिरासाय शास्त्रं चक्षुः स्थानीयं दर्शनं भूषणं मन्तव्यम् इत्येवं शास्त्रस्य पारमार्थिकव्यावहारिकभेदेन दर्शनत्वं द्विविधम् इति स्थितम् । १. मन्त्रिपुरोहितयोः सखेति षष्ठीसमासेनात्मनोऽपि तपोराधिक्यमाह । अन्यथा तौ सखायावस्येति
मन्त्रिपुरोहितसखा इति स्यात् । राजाहसखिभ्यष्टच् ( ६।४।९१) इति तत्पुरुषमासान्तस्य
विहितत्वात् । इति २. अशास्त्रचक्षुनृपतिरन्ध इत्यभिधीयते ।
वरमन्धो न चक्षुष्मान् मदादाक्षिप्रसत्पथः ।
परिसंवाद-३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366