Book Title: Bharatiya Chintan ki Parampara me Navin Sambhavanae Part 2
Author(s): Radheshyamdhar Dvivedi
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text ________________
३२०
भारतीय चिन्तन की परम्परा में नवीन सम्भावनाएं तत्वमस्तीति योगस्य कारणत्वमव्यावहतमेव । अथवा तृणारणिमणिन्यायेन प्रयत्नसाचिव्येन येन योग आत्मदर्शनार्थ साधितः तत्र तस्य कारणत्वं निर्वाधमेव ।
किं च पारमार्थिकसत्यत्वदृष्टया न्यायादीनां षण्णां दर्शनत्वं प्राचीनः यथा साधितं तथा तत्र तत्र प्रतिपादितस्यार्थस्य याथार्थ्यसंपादनाय अपेक्षिताः पूर्वपक्षा यत्र तानि नास्तिकशास्त्राण्यपि दर्शनान्येव । आन्वीक्षिकीत्वस्यैव लोकायते मन्तव्यानि । व्यावहारिकपारमार्थिकसत्यत्वानुरोधेन शास्त्राणां दर्शनत्वं स्वीक्रियते । प्रातिभासिकसत्यत्वानुरोधेन तु प्रतिभातं उपादानसमसत्ताकं व्यावहारिककाले वाधितत्वात्, असत्वात्, अनीतिमत्वात्, अप्रतिष्ठितत्वात्, दुःखसाधनत्वात् दर्शनेष न संगृह्यते । इत्येवं रीत्या दोषाणां प्रातिभासिककारणानां दर्शनत्वं नानुमतम् ।
अतो व्यावहारिककालेऽपि जीवनस्य सार्थक्याय' यथार्थलाभाय च वेदो नित्यमधीयतां तदुदितं कर्मस्वनुष्ठीयताम् । तेनैव च ईशस्य पूजा संसेव्यताम् । तदैव च इहलोके परत्र च शम् । इति ।
परिसंवाद-३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366