Book Title: Bharatiya Chintan ki Parampara me Navin Sambhavanae Part 2
Author(s): Radheshyamdhar Dvivedi
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 340
________________ ३१५ भारतीयचिन्तनपरम्परायां नूतनदर्शनस्य सम्भावना ? इष्टाधिकानामिष्टानां लाभस्तु विषयत्वतः । बीडाकरणभावेन विभावा यत्र सम्मता ॥" इत्यादिसङ्गीतरत्नाकरवचनात्स्पष्टम् । तत्र विवेकस्यान्तर्भावो मतिभावे भवति । एवं "नीतिशास्त्रानुसृत्यादेरर्थनिर्धारणं मतिः ।" इति लक्षणानुसारेण भारतीयराजनीतिरेव तस्याः परिणतं रूपं भवितुमर्हति नान्यत् ।। "प्रत्यक्षपरोक्षानुमानलक्षणप्रमाणत्रयनिर्णीतेष्टसाधनताककर्मानुष्ठानं नीतिः" इति तल्लक्षणानुसारेण प्रमाणत्रयप्राप्तमिदं नीतितत्त्वं चार्वाक-बौद्धादीनामप्यवश्यं मान्यमस्ति । इमामेव सुमतिरूपां श्रुतिसम्पत्तिमाश्रित्य षड्दर्शनानि प्रवृत्तानि अतस्तान्येव सुमतिपदवाच्यानि भवितुमर्हन्ति । "मतिश्च मे सुमतिश्चमे" इति वेदभागस्य भाष्येणाप्येतस्यैवार्थस्य पुष्टिर्भवति । अतो गुरुपरम्पराप्राप्तवैदिकदर्शनानामुल्लंघनं कदापि हितावहं न भवेत् । "उत्पद्यन्ते च्यवन्ते च यान्यतोऽन्यानि कानिचित । तान्यक्किालिकतया निष्फलान्यनतानि च ॥ या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः। सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः ॥ इति राजधर्मप्रवर्तकस्य मनोरपि कथनमस्ति । अतो यदि मत्सम्मतिः पृच्छ्येत, तहि पूर्वोक्तधतिभावे स्थिरीभूयास्तिकदर्शनानामनुसरणमेव मुख्यं कर्तव्यमस्ति । गुरुपरम्पराप्राप्तास्तिकदर्शनत्यागेन शिष्यहिताधान न भवेदादेशस्यापि हितं न भवेदति। परिसंवाद-३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366