Book Title: Aryikaratna Gyanmati Abhivandan Granth
Author(s): Ravindra Jain
Publisher: Digambar Jain Trilok Shodh Sansthan
View full book text
________________
७२२]
Jain Educationa International
वीर ज्ञानोदय ग्रंथमाला
हावर्थ प्रविधाय नाम नियतं नम्बुधौ मजिता, माता ज्ञानमती गुणाद्यगणिता विभ्राजते भूतले ॥ १० ॥
सौम्य श्रशिवपूर्वसागरगुरोः संघे विशिष्टा पुनः, ध्यानस्याध्ययनं विधाय विधिना धैर्यं धियोऽदर्शयत् । आज्ञामेत्य ततः स्वसंघसहिता सम्यक्त्वसम्मानिता, यात्रां नाना तीर्थकस्य सुमुखी सानन्टमेवाकरोत् ॥ ११ ॥ ध्यान्तध्वंसविधानलब्धयशसो दीपाद् यथा दीपकः, भव्यालोकमुपेत्य तस्य तमसो ध्वंसं विधतेतराम् । ज्ञानं शनमतीमुपास्य हि तथा शिष्या इमा आर्थिकाः, प्राप्याज्ञानमिहाशु भक्ताजगतः कुर्वन्ति नष्टं मुदा ॥ १२ ॥ नो सामान्यजनस्य बोधविषये दृष्टा विशिष्टा गतिः, संसारेऽपि विरक्तिरल्पवयसो लोकेऽस्ति नो सम्भवा । वैशिष्ट्यं द्विविधं करोति वसति श्री ज्ञानमत्यामिदम्, तेनेयं प्रतिभातिभूमिवलये नूनं विशिष्टा कृतिः ॥ १३ ॥
पूर्व ब्रह्मपदाद्यचर्यमतुलं छत्वा तं यौवने, दीक्षामेत्य ततः प्रसन्नमनसा भव्याभवत्क्षुल्लिका । तत्पश्चात्पुनरायिकेति पदवी प्राप्ता तपस्या बलात् प्राप्तैवं क्रमशः समुत्रतिमियं मैना महामानवी ॥ १४ ॥
तद्धन्यत्वमितं टिकैतनगरं धन्या च सा पूर्णिमा,
धन्यं श्रेष्ठिकुलं सुकर्मकुशलं तत्सा च धन्या निशा । धन्यः सः समयोऽस्ति यत्र सुमतिः साधुत्व संरक्षिका, माता ज्ञानमतीह प्रादुरभवद् भद्रात्मके भारते ॥ १५ ॥ श्रीजैनेन्द्रविशेषभक्ति विभवा विद्यार्थिवर्गादृता, धर्मोद्वारनिबद्धबुद्धिरमला धीराधरा धार्मिकी 1 विद्वत्ताद्वितया पवित्रप्रतिभा व्याख्यान विद्योत्तमा, माता ज्ञानमती स्वभावसरला लोके महत्त्वं गता ॥ १६ ॥ क्वैश्वर्यादिसमन्विताद्यसदनं चैत्यालये व स्थितिः,
क्वासौ भूरिपरिश्रमः प्रपठने क्वाल्पायुधो बालिका । क्वीवं मदु सर्वबोध्यसहजं क्वेदश तीव्रं तपः, निर्वोढुं सममेतदस्ति न जनः सामान्यशक्तिः क्षमः ॥ १७ ॥
नूनं पूर्वभवेऽनपातिकठिन सम्पादितं सत्तपः, ज्ञानज्ञापि परिश्रमेण महता सम्पूर्णमासादितम् । नो चेदत्र विनानुकूलसमयं ज्येष्ठा सुता सत्यपि, ज्ञानादानतपोविभूतिविषये जाता प्रवृत्ता कथम् ॥ १८ ॥
जैनाचारविचारचारुचारिता सच्चितचिन्तामणिः, शिष्या सार्थसहर्षशिक्षणपरा सन्तोषशुद्धाशया ।
For Personal and Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822