Book Title: Aryikaratna Gyanmati Abhivandan Granth
Author(s): Ravindra Jain
Publisher: Digambar Jain Trilok Shodh Sansthan

View full book text
Previous | Next

Page 795
________________ गणिनी आर्यिकारत्न श्री ज्ञानमती अभिवन्दन ग्रंथ ७२७ सश्रद्धं त्रिशलाकलादिसहितः श्रीवर्धमानो मुनिः, माता चादिमती सहर्षमपठत् श्रीमज्जिनेन्द्रागमम् ॥ ५४ ॥ निर्वाणाख्यमहोत्सवस्य समये दिल्यां भवत्या ध्रुवम्, भाव्यं चादंमलादिभक्तविहितं मत्वेति भव्याग्रहम् । माता मान्यमुनिद्वयेन सहिता संघार्यिकाभिः सह, शीघ्रं व्यावरतो विहारमकरोद् धर्मप्रचारेच्छया ॥ ५५ ॥ जम्बूद्वीपनिमित्तधानन्यने गा दधाना रुचिम्, सर्वे सक्रियतामिता सुमनसः श्री श्यामलालादयः । विद्वत्तापरिपूर्णभापणमियं तत्त्वार्थसूत्रोपरि, माता दत्तवती मनोरमपदैहोरात्रयं प्रत्यहम् ॥ ५६ ॥ धर्मस्थान विलोकनं प्रवचनं स्वाध्यायध्यानादिकं, विद्याभेषजभक्तशोकशमनं संस्थानसंस्थापनम् । भक्तान् तोषयितुश्च पाठनपरं धर्मार्थमुद्बोधनम्, दिल्यामेवाहर्निशं कृतवती माता प्रशस्तं तपः ॥ ५७ ॥ वेदद्वीपनिधीन्दुमानसुखदे श्रीख्रिष्टसंवत्सरे, मासे फाल्गुननाम्नि संघ सहिता मान्या मुनिभ्यां समम् । मायामोहमलं विवेकपयसा प्रक्षालयन्ती नृणाम्, तीर्थ स्वं प्रियहस्तिनापुरमियं दिल्ली पुरादागता ॥ ५८ ॥ तीर्थक्षेत्रविलोकनेन मुदिताः सर्वेऽभवन् साधवः, संघस्थान्यवसन् सुपर्वसमये भक्तास्तथान्ये जनाः । क्षेत्रीयः सचिवोऽपि साकमितरैः साध्यक्षमासीदिह, भक्तैमेरठमण्डलस्य महती संघस्य सेवा कृता ॥ ५९ ॥ चित्रं चारु समीक्ष्य सौम्यमनसस्तत्र स्थिताः श्रावकाः, स्यादेषा रचनात्र शीघ्रमखिला एकस्वरेणावदन् । सूत्साहं समवीक्ष्य धाम च तथा निर्माणयोग्यं महत्, सर्वेषामनुमोदनं कृतवती मादा मुदा तत्क्षणम् ॥ ६० ॥ वाणर्वङ्कखवत्सरे गतवती ख्रिष्टस्य कर्नाटकम्, चातुर्मासनिवाससक्तमनसा पञ्चार्यिकाभिः सह । ध्यानं विन्ध्यगिरौ कृतं यदनया मात्रार्द्धमासात्मकम्, जम्बूद्वीपविचित्ररचना तत्यैव भव्यं फलम् ॥ ६१ ॥ वेदlङ्कखवत्सरेऽतिरुचिरं ख्रिष्टस्य दिल्लीपुरे, श्रीवीरप्रभुभक्तिभावितजनैः सामोदमायोजितः । तनिर्वाणमहोत्सवः समभवत् श्रीरामलीलाङ्गणे, यनामावलोकितः सनियतं पुण्योत्तमः संवृतः ॥ ६२ माताज्ञानमती ततः प्रचलिता मान्यार्यिका संगता, दिव्यं धाम च हस्तिनापुरमिता कर्तुं निजामीप्सितम् । मिण, Jain Educationa international For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822