Book Title: Aryikaratna Gyanmati Abhivandan Granth
Author(s): Ravindra Jain
Publisher: Digambar Jain Trilok Shodh Sansthan

Previous | Next

Page 796
________________ ७२८] वीर ज्ञानोदय ग्रंथमाला मूर्तीनां विधिपूर्वकं समभवत् तत्र प्रतिष्ठा पुरे, मातुर्मन्द्रबलं समस्तसुजनैः प्रत्यक्षमालोकितम् ॥ ६३ ॥ साहित्यसृजनेऽनयावनितले या कीर्तिरासादिता, स्वीकुर्वन्ति समेऽपि साधु विबुधा सान्यार्यिकादुर्लभा । ग्रन्थासार्द्धशताधिका बहुविधा विद्वत्सु लब्धादराः, अस्याः संप्रथयन्ति बुद्धिविभवं मातुर्महत्त्वं तथा ॥ ६४ ॥ साहित्य सृजनं समाजभजनं शिष्यौध सम्पादनम्, मोहस्याहरणं प्रकाश करणं मुक्त्यध्वसम्बोधनम् । निर्माणेऽपि रतिश्च भोगविरतिः सर्वे विशिष्टा गुणाः, मातुर्व्यक्तमिदं वदन्ति भुवनं लोकोत्तरत्वं न किम् ॥ ६५ ॥ यस्याः प्रेरणया श्रमेण तपस्या भक्त्या तथा शिक्षया, सान्निध्येन विधानभव्यविधिभिस्तीथै विशिष्टं भवत् । श्री गङ्गातटहस्तिनापुरमिदं नूनं यशो गास्थति, सेयं वर्षशतं सुखं विजयतामित्थं प्रभुं प्रार्थये ॥ ६६ ॥ अथायं संक्षेपतः कविपरिचयः - एटाजनपदे गङ्गातीरे गऊपुराभिधः । प्रामस्तत्राभवद्विप्रो, जोखीरामो महोदयः ॥ १ ॥ तस्य ज्येष्ठः सुतो जातश्चुन्नीलालो महामनाः । सन्ति तस्य सुताः पञ्च, विद्याविनयभूषिताः ॥ २॥ शिक्षकः सुरभाषायाः, प्राचार्य पदमाश्रितः । रामकिशोरशर्माहं, तेषु ज्येष्ठोऽस्मि पञ्चसु ॥ ३ ॥ श्री सोबरनसिंहाख्यः, प्राध्यापकप्रचोदितः । कविताशक्तिहीनोऽपि, साहसं कृतवान् महत् ॥ ४ ॥ तस्यैवास्ति फलं भव्यं श्रीमातुःकुसुमाञ्जलिः । भक्तानां सुखदा भूयाद्, एतदर्थं प्रभुं भजे ॥ ५ ॥ Jain Educationa international For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822