Book Title: Ardrakumar Charitram Author(s): Shubhshil Gani Publisher: Shravak Hiralal Hansraj View full book textPage 7
________________ Shri Mahavir Jain Aradhana Kendra www kabarth.org Acharya Sher Kailassagarsur Gyanmandir आर्द्रकुमार चरित्रं P ॥४॥ ANCHAVSHAHR त आर्द्रभृपमंत्री सर्वाण्या पदत्तानि वस्तूनि लेखयुतानि श्रेणिकनृपाय समर्पयामास. तानि वस्तूनि दृष्ट्वा || श्रेणिकभूपोऽत्यंतं हृष्टस्तं मंत्रिणमविकतरं सन्मानयामास. अथ ते श्रेणिकमंत्रिणोऽप्याकुमारप्रेषि-टू तवस्तुन्यभयकुमाराय लेखयुतानि समर्प्य तन्मैत्रीकरणा) तस्य संदेशं निवेदयामासुः. तत्सर्वं गृहीत्वा हृष्टोऽभयकुमारो दध्यौ, नूनं पूर्वभवे किंचित विराधनयायमार्द्रकुमारोऽनार्यदेशे समुत्पन्नः संभाव्यते, परं मन्मैत्रीमिच्छन् ध्रुवं स आसन्नभव्यो मुक्तिगाम्यस्ति. ततः केनापि प्रपंचरचनादिना तथा करोमि, यथायं परमहतो भवेत्. नूनं तस्याईकुमारस्य तीर्थकरप्रतिमादर्शनतो जातिस्मरणज्ञानं समुत्पस्यते. अतोऽहं तत्र तस्य प्राभृतमिषेणार्हत्प्रतिमां प्रेषयामि. इति ध्यात्वा सोऽभयकुमारः श्रीऋषभदेवप्रतिमा पेटामध्यस्यां | विधाय, तन्मध्ये च कुंकुमधूपचंदनादिपूजायोग्यवस्तूनि मुक्त्वा तां तालकेन मुद्रयामास. अथ श्रेणिकार्पितप्राभृत युत आर्द्रभूपमंत्री यदाप्रयाणार्थं प्रगुणो बभूव, तदा अभयकुमारस्तं समाहृय तीर्थकरप्रतिमायुतां । तां पेटां तस्मै समप्योवाच, भो मंत्रिन् ! त्वयैषा पेटा तस्मै आर्द्रकुमाराय मदीयाभिधानकथनपूर्वकं समपणीचा, कथनीयं चाभयकुमारस्त्वां परमसौहार्देन समभिलषति, पेटा चेयं त्वयैवेकांते समुद्घाट्य तन्म SASTER-HSR5514 ॥४ ॥ For Private and Personal Use OnlyPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26