Book Title: Ardrakumar Charitram
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj
Catalog link: https://jainqq.org/explore/020020/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavirlain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir હિમાગીરી જૈના ટ્રસ્ટ સંચાલિત તપોવન સંસ્કાર પીઠ શાળાકોષો ઝેરોક્સ પ્રતો શ્ન: ગ્રોજના સ્થળ : તપોવન સંસ્કારપીઠ મું. અમીરાપુર - પો. સુઘડ -- જિ. ગાંધીનગર. પીન : ૩૮૨૪૨૪ | ફof નં. :- (૦૨૦૧૨) fo૬ર૦:૩, ૮૬૩૪૬ For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir || श्रीजिनाय नमः ।। ॥ श्रीआईकमारचरित्रं॥ (कन :- श्रीशभगिनी) गमबद्ध) छपावी प्रसिद्ध कतः पण्डिन श्रावक हीरालाल हंसराज. जामनगरपाला) सने १९२९ l'rinted at Jain Bhaskaroday I'rinting I'ress. JAMNJAK. For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir Beleeseeteteleie.eleideteleles peeeee800 Ha@000.000 deedbeeee..des.08.888 For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra कुमार चरित्रं ॥ १ ॥ www.kobatirth.org ॥ श्री जिनाय नमः ॥ ॥ श्री चारित्रविजयगुरुभ्यो नमः ॥ ॥ अथ श्रीआर्द्रकुमारचरित्रं प्रारभ्यते ॥ ( कर्ता - श्री शुभशीलगणी ) Acharya Shri Kailassagarsuri Gyanmandir (छपावी प्रसिद्ध करनार — पंडित श्रावक हीरालाल हंसराज जामनगरवाळा) श्रीवीतरागबिंबस्य | वीक्षणादेहिनामिह ॥ बोधिलाभो भवेदार्द्र- कुमारस्येव तत्क्षणात् ॥ १॥ तथाहि — अस्मिन्नेव पयोधिमध्ये आईकनामाऽनार्यदेशोऽस्ति, स च देशो बहुधनधान्यप्रभृतिवर्य वस्तुभरालंकृतोऽस्ति तत्रार्द्रकनामा नृपो न्यायान्वना पृथ्वीं शशास तस्यार्द्रकाभिधाना शीलादिबहुगुणगणविभूषिता | राज्ञी बभूव तयोर्दंपत्योः परस्परं हार्दिकी भूरिप्रीतिर्वभूव यतः - प्रीतिर्जन्मनिवासतो १ ऽप्युपकृतेः २ संबंधतो ३ लिप्सया ४ । विंध्ये हस्तिव १ दंबुजे मधुपवत् २ चंद्रे पयोराशिवत् ३ ॥ अब्दे घातकवद्भवेदसुमतां सर्वत्र नैमित्तिकी । या निःकारणबंधुरा शिखिवदंभोदे कचित् सा पुनः ॥ १ ॥ अथान्यदा मग For Private and Personal Use Only ।। १ ।। Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra भर्द्रकुमार चरित्रं ॥ २ ॥ www.kobatirth.org | धविषयाधिपः श्रेणिको भूपतिर्निजमंत्रिण आर्द्रकद्वीपे आर्द्रकभृपप्रीतिसंपादनार्थं भूरिवर्यप्राभृतसहित प्रीतिलेखयुतान् प्रेषयामास एवं सप्रीतिलेखं भूविर्यप्राभृतं स्वीकृत्यार्द्रकराजापि परमं संतोषं प्राप्य तान् मंत्रिणः पप्रच्छ भो मंत्रिणः । तस्य मद्दन्धोर्मयधेशितुः किं कुशलमस्ति ? ततस्तैर्मंत्रिभिरपि श्रेणिक भूपकुशलतोते निवेदिते नृपपार्श्वे स्थितस्तत्पुत्र आर्द्रकुमारः कृतांजलिर्निंजननकमपृच्छत्, भो तात ! कोऽयं मगधाधिपस्ते सुहृत् विद्यते ? तदा राजावदत्, वत्स ! स श्रेणिकानिधो मगधदेशभुपतिरस्ति, तेन समं ममातीव प्रीतिर्वर्तते पुराव्यात्मीयकुलभूपतिभिः समं तत्रत्यभूपानां प्रीतिरासीत्, एवं कुल क्रमागतायापि सा प्रोतिरविच्छिन्नेव वरिवर्तते एवं निजजनकवचांसि श्रुत्वाऽतीवहृष्टः स आर्द्रकुमारस्तान् श्रेणिकनृपमंत्रिणो निजावासे समाकार्य रहोवृत्त्या पप्रच्छ, भो मंत्रिणः ! युष्माकं तस्य श्रेणिकस्य राज्ञः किं कोऽपि सुतोऽस्ति ? तदा मुख्यमंत्रिणा प्रोक्तं, भो कुमारेंद्र ! तस्य श्रेणिकभूपस्वधियां पात्रं, पंचशतामात्याविपतिरभयकुमाराभिधस्तनयोऽस्ति तत् श्रुत्वा दाक्ष्यदाक्षिण्यनैपुण्यकलाकुशलः स आर्द्रकुमारोऽवदत्, तेनाभयकुमारेण सहाहमपि मैत्रीं कर्तुमिच्छामि. अतो यदा यूयं पश्चाद For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥ २ ॥ Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra आर्द्रकुमार चरित्रं ॥ ३ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | गच्छथ तदा मामापृच्छयैव व्रजथ, यदहमपि तस्मै राजकुमाराय किमपि प्राभृतं प्रेषयितुमुत्सुकोऽस्मि. ओमित्युक्त्वा ते मंत्रिणोऽपि निजस्थानं ययुः अथ स आर्द्रकराजा मनोहरभाजनपानादिभिस्तेषां श्रेणिकमंत्रिणां सर्वदा भूरिसत्कारं करोतिस्म. अथान्यदा स आर्द्रकराजा श्रेणिकभूपप्रेषणयोग्यमणिमुक्ताफलादिवर्यवस्तूनि स्वमंत्रिणे समर्प्य कथयामास, भो मंत्रिन् ! त्वं मगधदेशे राजगृहे नगरे मदीयपरममित्र श्रेणिकनृपपार्श्वे गच्छ ? तस्यैतानि वस्तूनि च मदीयप्रणामपूर्वकं त्वया प्राभृतीकरणीयानि. अथैवं नृपादिष्टः स मंत्री यदा राजगृहंप्रति गंतुं प्रयाणमकरोत्, तदा ते श्रेणिकमविणोऽपि तेनार्द्रकनृपेण सन्मानपुरस्सरं विसृष्टाः संत आर्द्रकुमारपार्श्वे गत्वा निजप्रयाणस्वरूपं निवेदयामासुः तदा प्रमुदितः स आईकुमारोऽपि कोटिमूल्यमणिमाणिक्यमुक्ताफलपट्टकुलादिवर्यवस्तूनि तेभ्यः समर्प्य प्राह, भो मंत्रिणः ! एतानि सर्ववस्तुनि युष्मानिर्मदीयाभिधानपूर्वकं तस्मै अभयकुमाराय समर्पणीयानि, मत्प्रणामपूर्वकं च तस्मै वाच्यं, यदार्द्रकुमारो भवद्भिः सह मैत्रीं कर्तुं वांछति अथ तत्सर्व प्रतिपय ते मंत्रिण आर्द्रभृपमंत्रियुताः शुभे मुहूर्ते राजगृहंप्रति यानारूढाः प्रयाणमकुर्वन् प्रयाणं कर्वतस्ते सर्वेऽपि क्रमेण राजगृहं प्रापुः तत्र For Private and Personal Use Only 11-3 11 Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kabarth.org Acharya Sher Kailassagarsur Gyanmandir आर्द्रकुमार चरित्रं P ॥४॥ ANCHAVSHAHR त आर्द्रभृपमंत्री सर्वाण्या पदत्तानि वस्तूनि लेखयुतानि श्रेणिकनृपाय समर्पयामास. तानि वस्तूनि दृष्ट्वा || श्रेणिकभूपोऽत्यंतं हृष्टस्तं मंत्रिणमविकतरं सन्मानयामास. अथ ते श्रेणिकमंत्रिणोऽप्याकुमारप्रेषि-टू तवस्तुन्यभयकुमाराय लेखयुतानि समर्प्य तन्मैत्रीकरणा) तस्य संदेशं निवेदयामासुः. तत्सर्वं गृहीत्वा हृष्टोऽभयकुमारो दध्यौ, नूनं पूर्वभवे किंचित विराधनयायमार्द्रकुमारोऽनार्यदेशे समुत्पन्नः संभाव्यते, परं मन्मैत्रीमिच्छन् ध्रुवं स आसन्नभव्यो मुक्तिगाम्यस्ति. ततः केनापि प्रपंचरचनादिना तथा करोमि, यथायं परमहतो भवेत्. नूनं तस्याईकुमारस्य तीर्थकरप्रतिमादर्शनतो जातिस्मरणज्ञानं समुत्पस्यते. अतोऽहं तत्र तस्य प्राभृतमिषेणार्हत्प्रतिमां प्रेषयामि. इति ध्यात्वा सोऽभयकुमारः श्रीऋषभदेवप्रतिमा पेटामध्यस्यां | विधाय, तन्मध्ये च कुंकुमधूपचंदनादिपूजायोग्यवस्तूनि मुक्त्वा तां तालकेन मुद्रयामास. अथ श्रेणिकार्पितप्राभृत युत आर्द्रभूपमंत्री यदाप्रयाणार्थं प्रगुणो बभूव, तदा अभयकुमारस्तं समाहृय तीर्थकरप्रतिमायुतां । तां पेटां तस्मै समप्योवाच, भो मंत्रिन् ! त्वयैषा पेटा तस्मै आर्द्रकुमाराय मदीयाभिधानकथनपूर्वकं समपणीचा, कथनीयं चाभयकुमारस्त्वां परमसौहार्देन समभिलषति, पेटा चेयं त्वयैवेकांते समुद्घाट्य तन्म SASTER-HSR5514 ॥४ ॥ For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir चरित्र भाद्रकुमार ही ध्यस्थवस्तु विलोकनीयं. इत्युक्त्वा तां पेटां तस्मै समयको लेखोऽपि तेन तस्याकुमारस्यार्पयितुं दत्तः,5 H/ तल्लेखमध्ये चेयं गाथा लिखितासीत्-चित्तं तुम्ह विलग्गं । तुह गुणसवणेण सवणपरितोसो ॥ नयणे मे खु धवलं । तुह दंसणमहिलसइ ॥१॥ अथ सोऽमात्योऽपि ततश्चलितः क्रमेण निजनगरे समायातः, श्रेणिका र्पितप्राभृतवस्तूनि च निज पाय समर्पयत्. तानि वस्तूनि विलोक्याभृपालोऽप्यत्यंतं हृष्टः. ततः स मंत्री आर्द्रकुमारपाचे गत्वा भयकुमारदत्तां पेटां लेखयुतां समयोवाच, भो कुमारेंद्र! इयं पेटा त्वं वै-15 कांते सपुद्घाटनीयेत्यभयकुमारेण भूरिस्नेहपूर्वकं कथितमस्ति. ततोऽसावार्द्रकुमारोऽपि रहसि स्वयमेव तां पेटां कुंकया समुद्घाटन तम्ध्यस्थां रत्नाद्याभूषणैर्भूषितां पूजादिसामग्रीयुतां श्रीयुगादोशजिनप्रतिमा विलोकामास. तां विलोक्य सोऽचिंतयत्, अहो! तेन मम परमसुहृदाभयकुमारेण किमिदमपूर्व वस्तु प्रेषितमस्ति? अञ्चयावन्मया कुत्राप्येवंविधं वस्तु न दृष्टं. किमिदं किंचिन्नवीनमाभूषणं विद्यते? एवं चंतयन्नसौ तां प्रतिमा निजकंटे, मूर्ध्नि, हृदये च स्थापयामास, परं तेन निजदेहस्य कापि शोभा न दृश्यते. ततोऽग्रे तत्सालंकारं श्रीयुगादीशवि सिंहासनारूढं विधाय तत्सन्मुखंस्थित्वा स दध्यौ, किमीशं रूपंपूर्व SARA ॥५ ॥ For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir आर्द्रकुमार | चरित्रं मया क्वापि दृष्टं? इत्यादि भयो भूयो भावयन् स आर्दकुमारो मूर्छामवाप्प जातिस्मरणमाप्तवान्. एवं लब्धजातिस्मरणोऽसाविति निजपूर्वजन्मास्मरत्. इतो भवात्तृतीयस्वेऽहं वसंतपुरे मगधदेशे साथकाख्यः कौटुं| विकोऽभवं. भार्या च मे बंधमत्यभिधा बभूव. अन्यदाहं तवा मम भार्यया युक्तः श्रीसुस्थिताचार्यपाश्वे धर्म श्रोतुसगच्छं, गुसभिश्चर्य धमोपदेशो दलः, यथा-त्रैकाल्यं जिनपूजनं प्रतिदिन संघग्य सन्माननं । स्वाध्यायो गुरुसेवनं च विधिना दानं नावश्यकं ।। शक्त्या च प्रतपालनं वरतपो ज्ञानस पाठस्तथा । सैष श्रावक पुंगवस्य कथितो धर्मो जिनेंद्रागमे ॥ १ ॥ इत्यादिधर्मोपदेशेन प्रतिबुद्धेन मग भार्याथुतेन तू श्राद्धद्वादशवतानि स्वीकृतानि, कियत्कालं च तानि सर्वाण्यपि व्रतानि मया शुद्धभावेनाव ई पालितानि. तत एकदा मूढभावेन प्रमादतस्तानि मया खंडितानि. अथ कियता कालेनांगीकृतानशना सा मम भार्या बंधुमती पंचत्वं प्राप्ता. तदा तदीयमोहमुग्धेन मया ध्यातमरेरे! तया मे प्राणप्रिययाविनाथ जीवितेन किं? इति शोकपरः कृतानशनो मृत्वाहं दिवि देवोऽभवं. ततश्च च्युत्वाहं धर्मवर्जितेऽनार्यदेशे व्रतखंडनप्रभावतोऽधुना जातोऽस्मि. अथ योऽयमभयकुमारो जिनबिंबप्रेषणेन मा प्रतिबोधयति, स ननं भमोपकारी For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra आर्द्रकुमार चरित्रं 110 11 জন www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | परमबांधवो गुरुश्चास्ति. अथाहं पितरमनुज्ञाप्य तलार्यदेशे गत्वा तस्याभयकुमारस्य मिलिष्यामि, जिनधर्माराधनतश्चेदं जन्म सफलं विधास्ये, एवं मनोरथान् कुर्वन् स तां श्रीयुगादिजिनप्रतिमां विधिना पूजयित्वा ऽभयकुमारपार्श्वे गंतुकामो निजजनकसंनिधौ गत्वा जगाद, भो तात! अहं भवदीयपरममित्र|णिकनृपतनयाभयकुमारस्य मिलनाथं तत्र राजगृहनगरे गंतुमिच्छामि तदा स आर्द्रकल्पोऽवदत् भो वत्स ! त्वया तत्र गमनेच्छा न कर्तव्या, यतो विदेशगमनं नूनं विषमं विद्यते. स्वस्थानरियतस्यैव पुंसः शोभा भवति किं चास्माकमपि तेन श्रेणिकनृपेणसह दूरस्थितानामेव मैत्री वर्तते, न वयं कदापि तत्र यामः, न च सोऽप्यत्रायगति एवं पित्रा निषिद्धः स आर्द्रकुमारस्तत्र गंतुमुत्सुकोऽपि वारिबद्धो द्विप इव स्थितः, उक्तं च आसने शयने याने । भोजने व क्रीयासु च ॥ अभयालंकृतामाशां- प्रति दत्तमना भूत् ॥ १ ॥ ततः स तत्रागतपथिकान् सर्वदा पृच्छति, स मगधदेशः कीदृशोऽस्ति ? कीदृक् च सोऽसर कुमारोऽस्ति ? एवं निजतनयमार्द्रकुमारं चलचित्तं विज्ञाय तद्गमनशंकया राजा गुप्तं पंचशतसुभटाना हूयेत्यादिशत्, For Private and Personal Use Only ॥ ७ ॥ Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kailassagarsur Gyanmandir G ॥८ ॥ भाद्रकुमार || भो सु स्टाः! अयमानुकुमारो राजगृहे पुरेऽभयकुमारांतिके यियासुरस्ति, ततः स यथा तत्र गंतुं न | चरित्रं शनोति तथा युष्माभिरेतस्य दूरस्थितैरेव रक्षण कार्य, एरमयं संकेतो भवद्भिस्तस्य कदापि नैव वाच्यः.* ओमित्यत्वा ते सेवार्थ समागत्य कुमाराय जगुः, भो कुमारेंद्र! राज्ञा वयं तव सेवार्थं नियुक्ताः स्मः, आदिष्टमस्ति च, यत्किंचिदपि तव सेवार्थ विलोक्यते, तत्सर्व वस्तु कोशाद ग्रहीतव्यमिति. ततो जनकप्रदत्तस्तैः सेवकैः परिवृतः स कुमारो निजस्थानके समायातः, अथ यदा यदास क्रीडा वहिर्गच्छति, तदा तदा ते सर्वेऽपि सेवकास्तदीयदेहच्छायेव तं कदापि न मुंचंति. तदा स आर्द्रकुमारो बंदिनमिव धृतं स्वं 13 मन्यमानो दथ्यौ, अथ किं क्रियते? स्वर्णनिगडानी वैते सेवका मम पदबंधनकारिणो जाताः कथं च ममा भयकुम रमिलनं भविष्यति ? एवं चिंतापरोऽसो तेषां विश्वासोत्पादनार्थमेवमुपायमकरोत्. प्रत्यहं स तैः सह जात्यतुरगमारूढः पुराद वहिल्याने गच्छति, कमात् दूरं दूरतरं दूरतमं च गत्या स पश्चाद व्याघुट्य स3वंदा पुनः समायाति. तदा ते सर्वेऽपि सेवकाचितयितुं लग्नाः, यदयं कुमारोऽधुना सर्वथाऽभयकुमारपाचे ४ विदेशं गंतुं नैवेच्छति. एवं जातविश्वासास्ते निजहृत्सु मनागपि तत्पलायनचिंतां न कुर्वति. कुमारोऽपि ECORDCALC Far Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra आर्द्रकुमार चरित्र ॥ ९ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्वदा मनोज्ञाशनपानदानादिभिस्तेषां संतोषमुत्पादयतिस्म अथ स आर्द्रकुमारः प्रच्छन्नं समुद्रतीरे निजविश्वस्त पुरुषैरेकं यानपात्रं सज्जयामास अन्यदासौ जात्याश्वरत्नमारुह्य वेगेन तान् सर्वानपि सेवकान् पश्चाद्विमुच्य तया श्रीयुगादिजिनप्रतिमयायुतो महामूल्यरत्नभृत पेटासहितः समुद्रतीरे समागत्य पूर्वं प्रगुणीकृते तस्मिन् प्रवहणे समारुह्य समुद्रमार्गे चचाल. एवं यानपात्रे प्रयाणं कुर्वन् स कियद्दिनैः समुद्रापरतीरस्थे लक्ष्मीपुरनगरे समुत्तीर्णः इतस्तत्रैव श्रीपुण्यनंदनाभिधा जैनाचार्याः समाययुः आर्द्रकुमारोऽपि स्वं धन्यं मन्यमानो धर्मश्रवणार्थं तेषां समीपे समागात. गुरुभिरपि तं योग्यं विज्ञायेति तख धर्मोपदेशो दत्तः, यथा - नृपत्वचक्रित्वहरित्ववैभवं । धर्मः प्रदत्तेऽनुभवं नवं नवं ॥ विधेहि तद्धर्मविन्यतां । पिधेहि नित्यं विषयानुषंगितां ॥१॥ लजातो भयतो तर्कविधितो मात्सर्वतः स्नेहतो। लोभाचैव हठाभिमानविनयशृंगार कीर्त्यादितः ॥ दुःखात् कोतुकविस्मयव्यवहृतेर्भावात्कुलाचारतो । वैराग्याच्च भजंति धर्ममनलं तेषाममेयं फलं ॥ २ ॥ इयं मायारात्रिर्वहलतिमिरा मोहललितैः । कृतज्ञानालोकास्तदिह निपुणं जायत जनाः ॥ अलक्ष्यः संहर्तुं ननु तनुभृतां For Private and Personal Use Only 11" 1 Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir आर्द्रकुमार चरित्रं SAX ॥ १० ॥ जीवितधना-न्ययं कालश्चौरो भ्रमति भुवनांतः प्रतिगृहं ॥३॥ इत्यादि धर्मोपदेशमाकर्ण्य स आद्रकुमारो | | वैराग्यवासितहृदयो बभूव. ततोऽसो सहानोतं सर्वमपि द्रव्यं सप्तक्षेत्र्यामुप्त्वा यतिलिंगमुपादातुं सर्वविग्त्यर्थं यावत्स मायिकमुच्चतमुत्सुकोऽभूत् . तावदाकाशस्थितया शासनदेवतया प्रोक्तं, भो महासाग! | यद्यपि त्वं महासत्त्वशायसि. तथाहि सांप्रतं तब दोक्षाग्रहणं न युक्तं. यदद्यापि ते बद्दलं भोगकर्मफलं विद्यते, तद्भोगकर्मफलं भुक्त्वा कियत्कालानंतरं त्वं चारित्रमाददीथाः, यतः कृतं कर्म भोगफलंविना न त्रुटति, यतः-कत्थइ जीवो बलोओ। कत्थइ कम्माई टुंति बलिआई॥ जोवस्स य कम्मस्स य । ४. पुनिबद्धाइं वइराइं॥१॥ कृतवर्मक्षयो नास्ति । कल्पकोटिशतैरपि ॥ अवश्यमेव भोक्तव्यं । कृतं कर्म १ शुभाशुभं ॥ ६ ॥ एवं शासनदेवतया निवारतोऽपि स आर्द्रकुमारः सत्त्वतः प्रवलीभूय प्रत्यकबुद्धो यतिनरभृत्. एवं स निरतिचारं चारित्रं पालयन्नेकदा विहरन् वसंतपुरे समायातः, तत्र च बाह्यदेवकुले कायो सर्गेण तस्थौ. अथ तत्र वसंतपुरे नगरे धनदत्ताख्य एकः श्रेष्ठी वसति, तस्य च श्रीमतीनाम्नी पुत्री बभूव. क्रमावर्धमाना सा घाल्यावस्थामुल्लंघ्य धर्मकर्मसर्वकलाकुशलाजनि. अन्यदासमानवयस्काभिरिभिरिभ्य-18 ॥१०॥ For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir आर्द्रकुमार पुत्रीभिः परिवृता सा वरवरणक्रीडां कर्तु आर्द्र कुमारार्षिसमलंकृते तव देवकुले समायाता. तदा सर्वाः चरित्रं 16 कन्या बालक्रोडया जगुः, एते सर्वे स्तंभा वरतुल्या वर्तते, वयं सर्वा अपि कन्याः स्मः, यस्यै यस्यै यो यो । वर एषु रोचते, स स तया तया स्वहस्तालिंगनेनांगोकर्तव्यः. ततस्ताः सर्वाः स्वं स्वमेकैकं स्तंभं निजवरबुध्शंगीचक्रुः. श्रीमती तु स्तंभमलभनाना तं कायोत्सर्गस्थमाकुमारमुनिमेवांगोकृत्येत्युवाच, मया त्वयं भट्टारक एव वृतः. तदाकस्मादाकाशे " साधु वृतं, साधु वृतं " इति जल्पंती शासनदेवता तत्र गर्जितादिपुरस्सरं रत्नवृष्टिं चकार. यत:-राज्यं मुसंपदो भोगाः । कुले जन्म सुरूपता ॥ पांडित्यमायुरारोग्यं । धर्मस्यैतत्फलं विदुः ॥ १॥ ततस्तस्यार्द्रकुमारमुनेः पादयोर्लगित्वा सा श्रीमती प्राह, भो मुने! अस्मिन् भवे त्वमेव मम पतिरसि. अहो! अनुकुलमुपसगोऽयं जातः, मदीयवतभंगश्च भविष्यति, इति ध्यायन् सोऽनगारशिरोमणिस्ततोऽन्यत्र विजहार. अर्थ तां देवताकृतरत्नवृष्टिमादित्सू राजा तयैव शासन- T ॥११ देव्या निषिद्धः. तत एतद्धनमस्यां कन्यायां परिणीतायां तस्या एव भविष्यतोति प्राच्य राज्ञा तत्सर्व श्रीमतीपितुरेव समर्पितं. ततो नृपादयः सर्वेऽपि जना निजं निजं स्थानं यः. अथ विवाहार्थं तां कन्यां | THEHOSHA ARMAANAMAAL For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagarsun Gyanmandir चरित्रं आर्द्रकुमार || मार्गयितुं बहवो वराः समायांति, तदा श्रीमती जल्पतिस्म, यो मुनिर्मया पूर्व वृतः, स एव मम स्वाम। | भवतु, अन्यथाग्निरेव मम शरणं भविष्यति, कुमारिका कन्या वेकवारमेव परिणयति, यतः॥ १२॥ सकृजल्पंति राजानः । सकृजल्पंति साधवः ॥ सकृत्कन्याः प्रदीयते । त्रीण्येतानि सकृत् सकृत् ॥१ तदा श्रेष्टी निजपुत्रीं प्राह, भो पुत्रि! परं स महर्षिः कथं प्राप्यः? यत एवंविधा महर्षयः क्षणमप्येका नैव तिष्टंति, ते तु अलय इव स्थानात्स्थानं भ्रमंति. ततः सोऽत्र कथमायास्यति? आगतो वा कशमुप लक्षिष्यते? कथं च तस्य नाम ज्ञायते? किमयभिज्ञानं नास्ति, एवंविधा बहवो भिक्षवोऽत्रायांति यांति च, अतः स सम्यग् नैव ज्ञास्यते, तेन त्वं कदाग्रहं मा कुम? यतः-वज्रलेपस्य मूर्खस्य । नारीणां मर्क टस्य च ॥ एकाग्रहस्तु मीनानां । नीलिमद्यपयोस्तथा ॥१॥ तत् श्रुत्वा श्रीमती प्राह, भो पितः! यदाह । तस्य मुनेः पादयोलग्ना, तदा मया विद्युद्योतेन गजाकृतिरूवरेखा तस्य पादे दृष्टास्ति, तादृचिह्नयुतं ॥१२॥ । मुनि नूनमहमुपायेन शोधयिष्यामि. तत् श्रुत्वा पित्रा प्रोक्तं, भो पुति! यः कोऽप्युपायस्ते रोचते तं र सुखेन कुरु? एवं जनकेन प्रोक्तया तया श्रीमत्येत्यभिग्रहः कृतः, यथा मया लित्यं चतुभ्यों दिग्भ्योऽत्र R-RRRRRC For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra आर्द्रकुमार चरित्र ।। १३ ।। DE www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समागतानां मुनोनां शुद्धान्नपानादिभिः प्रतिलाभ्यैव तच्चरण वंदनपूर्वकं भोजन कार्य इत्यभिग्रहपरैया | नित्यं मुनिभ्यः शुद्धान्नपानादि दत्वा तेषां चरण वंदनं करोति एवं कुर्वत्यास्तस्या द्वादश वत्सरा निर्गताः. अथैकदा देवीविहितदिग्मोहः स एवाई कुरमुनिर्विहारं कुर्वस्तत्रैव नगरे समायातः तं मुनिं प्रतिलाभयंती श्रीमती तत्पादयोर्वदमाना सम्यगुजगो, भो मुने! तदा देवकुले क्रीडत्या मया त्वं वृतोऽसि, अतस्त्वमेव मम वरोऽसि तदा मां वितत्वं पलायितः, अधुना मदीयहस्तागतस्त्वं कथं यास्यसि ? अथ यदि त्वं मामवगणयिष्यसि तदा तुभ्यमात्महलां दास्यामि एवं स्त्रीहत्यापातकं च ते श्रभ्रप्रभविध्यति, इत्युक्त्वा सा श्रीमती तस्य मुनेस्तं निजहस्तेन दृढं गृहोत्यैवास्थात्. इतस्तमुदं विज्ञाय राजादो बहवो लोकास्तत्र मिलिताः राजा तमार्द्रकुमारमुनिंप्रति जगो भो मुने! अथ यदि त्वनिमां कन्यामंगीकरिष्यसि तदैव सा जीविष्यति, अन्यथेयं नूनं तवात्महत्यां दास्यति, तत् श्रुत्वा स आर्द्रकुमार| मुनिरपि तां शासनदेवतावाणीं सम्मार, दध्यौ चाधुना समापतितं देवतोक्तं भोगकर्मफलमन्यथा कर्तुं नैव शक्यते, दैवीवाचो नैवान्यथा भवंति यतः - आरोहत गिरिशिखरं । समुद्रमूल्लंघ्य यातुः पातालं ॥ For Private and Personal Use Only ।। १३ ।। Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra आर्द्रकुमार चरित्रं ॥ १४ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्रापि ध्रुवमन्वेति । कृतं शुभाशुभं कर्म ॥ १ ॥ इति विचार्य स आर्द्रकुसारमुनिर्नृपादीनामुपरोधेन | तां कन्यां परिणीतवान् ततस्तया सह भोगान् भुंजानस्य तस्यार्द्रकुमारस्य सुतः समुत्पन्नः तस्य जन्मोत्सवोऽपि तेन विहितः क्रमेण स सुतो वृद्धिं प्राप तत एकदा पुनर्वैराग्यवासितहृदयः स आईमारो निजां पत्नी प्राह. हे प्रिये! अधायं पुत्रस्ते सहायभूतो जातोऽस्ति अहं चाथ पुनदीक्षां गृहीयामि. एवं विदं निजविनं श्रीमती प्रति जनकाभिप्रायं ज्ञापयितुं तुलपूर्णिकां tatar कर्तमुपविष्टा इतो लेखशालातः समागतः स वालो मातरं कर्तयंती वीक्ष्य जगी, भो मातः ! किमिसनोदृशं कर्मकरजनोचितं कर्म त्वयारब्धं ? तत् श्रुत्वा श्रीमती जगो, तब पिता दीक्षां गृहाति, ततस्तेन मुक्ताया ममायाजोविकार्थं तर्कुरेवायं शरणं वालेनोकं मातस्त्वया दुःखं न कार्य, अहं तथा करिष्ये, यथा मम पिता दीक्षार्थं गंतुमेवाशक्तो भविष्यति इत्युक्त्वा तल सुप्तस्य निजजनकस्य | पादो तर्कसूत्रेण वेष्टयित्वा स जगो भो जनक! इशः सूत्रतंतुभिर्वद्वस्त्वं दीक्षार्थमितः कथं गमिष्यसि ? ततोऽसो मातुः सन्मुखं विलोक्य जगो भो मातः ! मया मे पिता तथा बद्धोऽस्ति यथा सतुं न For Private and Personal Use Only ।। १४ ।। Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra आर्द्रकुमार चरित्रं ।। १५ ।। 6 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शक्नोति एवंविधं बालचेष्टितं विलोक्यार्द्रकुमारो दध्यो, नूनं ममास्य पुलस्य मोहोऽद्यापि दीक्षार्थं निवारयति, यतो मयि दीक्षिते अस्य पुत्रस्य पत्न्याश्च का गतिर्भविष्यति ? इति ध्यात्वा मोहाभिभृतेनार्द्रकुमारेणेति निजहृदये निश्चितं, अनेन बालेन यावंतस्तं तवो मदीयपादयोर्वेष्टिताः संति, तावंति वर्षाणि मया गृहवासे एव स्थेयं ततः स आर्द्रकुमारस्तान् तंतूद् गणयामास, सर्वे द्वादश तंतवो जाताः, ततस्तेन श्रीमती प्रियांप्रत्युक्तं, हे प्रिये ! त्वं चिंतां मा कुरु ? अथाप्यहं द्वादश वत्सराणि गृहे एव स्थास्यामि, तदनंतरं नूनं दीक्षां लास्ये. एवं सुतप्रतिबंधेन स द्वादश वर्षाणि गृहे स्थित्वान्येयुरिति दध्यो - भवकूपाद्विनिर्गतुं । व्रतमालंब्य रज्जुवत् ॥ मया प्राप्तं च मुक्तं च । मग्नस्तत्राप्यहं पुनः ॥ १ ॥ मनसैव तं भग्नं । प्राग्जन्मनि ततोऽप्यहं | अनार्यत्वं प्रपन्नोऽस्मि । का गतिः स्यादतः परं ॥ २ ॥ भवत्विदानीमप्यात्त-परिव्रज्यस्तपोऽग्निना ॥ साक्षात्प्रक्षालयिष्ये स्वं । मलिनीभृतहेमवत् ॥ १ ॥ इति ध्यात्वा स आर्द्रकुमारो निजां पत्नी श्रीमतीप्रति प्राह, हे प्रिये ! अथाहं दीक्षां लास्यामि, तदा श्रीमती जगौ, हे स्वामिन्! स्त्री विनाहं कथं भविष्यामि ? पुत्रस्यास्य च का गतिर्भविष्यति ? तदार्द्रकुमारो जगौ हे प्रिये ! For Private and Personal Use Only ।। १५ ।। Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir ऊब - -- आर्द्रकुमार 2 कथं त्वयैवमुच्यते? अस्मिन्नसारे संसान कोऽपि कस्यापि नास्ति, निजनिजकर्मप्रेरिता जीवा: संयुज्यंते, चरित्रं वियुज्यंते च. यतः-जातश्चैको वृतश्चैक एको धर्म करोति च ॥ पप स्वर्गसुखे जीवः । श्वभ्र गच्छति ॥ १ कः समं ॥१॥ मुढाः कुर्वति ये मे मे वपुःपुत्र पहादिकं ॥ तेऽपि त्यक्त्वा च रोगार्ता । मजति भव-16! सागरे ॥२॥ लाति पुनः पुनर्जीवो। नवं देहगृहादिकं ॥ कथं मे मे तनुगेंहं । कलत्रं कुरुते जडः॥३॥ कुटुंबं धनधान्यादि । सर्वमापदां पदं ।। देहं च भन्यते यः स्वं । कर्म वनाति सोऽल्पधीः ॥४॥एको धर्ममुपार्जितं व विबुधः कृत्या स्वयं गति । स्वगें पापमुपायं घोरनरकं दुःखाकरं प्राणभृत् ॥ एको दुःखतति ह्यसारमपि भो धृत्वा च मुक्त लयं । तस्मात्त्वं भज भावतो हि शरणं धर्म त्यज स्वं गृहं ॥५॥ इत्यादिवचनैः पन पुत्रं च प्रतियोग्य पुनर्यतिलिंगमुपादाय निर्ममो निरहंकारः स निजगृहान्निगत्य वने गतः, एवं स आर्द्रकुमारमुनिरथ राजगृहंप्रति गच्छन् अंतराले चोर्यवृत्तितत्परं स्वं सामंतशत-12 ॥१६॥ पंचकमुपलक्ष्य यावत्तत्र स्थितस्तावत् नूनमयमस्माकं स्वाम्येवेत्युपलक्ष्य तैर्भूयस्या भक्त्या वंदितः. ततः स आईकुमारमुनिस्तान जगाद, भो सामंताः! युष्माभिः किमीशीयं पापकारिणो च दुर्गतिदायिनी वृत्तिः18 -- For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shet Kailassagersa Gyanmandir चरित्रं 4. द्रकुमार Fि समारब्धा? एतः । चौर्यपापद्रुमस्येह । वधबंधादिकं फलं ॥ जायते परलोके तु । फलं नरकवेदना ॥१॥तदा ते सेवका जगुः, हे स्वामिन् ! यदा वमस्मान् वंचयित्वा गतम्तदास्माभिः सर्वत्र विलोकितोऽपि न दृष्टः. तदास्मा।। १७॥ द्रा भिश्चिंतितमार्द्रकुमारस्तु गतः, अथ वयं भूपस्य कथं स्वमुखानि दर्शया:? इति विचिंत्य वयं सर्वेऽपि यानारूढा अत्र समागता.. अनापि वह विलोकमाना अपि वयं त्वामनुपलभ्य चोर्यवृत्तिमाचरामः. तदा मुनिराह, भो भद्राः! को समागतेऽपि मद्भिश्चोवृत्तिनैव विधेया, इदं दुर्लभं मनुष्यजन्म प्राप्य सजनैस्तद्विधेयं, येनागामिनि जन्मनि शुभगतिर्भवेत्. गतः-जंतूना पवन जिनेशमहनं भक्त्यागमाकर्णनं ।। साधूनां नमनं मदापनयन सम्यगुरोर्माननं ।। मायाया हननं विशुद्धिकरण लोभदुमोन्मूलनं । चेतःशो-2 धनमिंद्रियाश्वदमनं यत्तच्छियोपापनं ॥१॥ केनापि पुग्ययोगेन । मानुष्यकमवाप्यते ॥प्राप्य तदुलभं धर्मः । कार्यः स्वर्गापवर्गदः ॥२॥ दया जीवेषु सत्योक्ति-रस्तेयं ब्रह्मचारिता ॥ आकिंचन्यं च धर्मोऽयं ।। जिनेरेव निवेदितः ॥३॥ ततो भो सामंताः! यदि भवंतो मयि भक्तिमंतस्तदा मदीयमार्गमाश्रयवं? %ARAKHANANCIENCE ॥ १७ ॥ For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagarsun Gyanmandir चरित्रं आर्द्रकुमार 3 ततो युष्माकमत्थतं सुखं भविष्यति. तत् श्रुत्वा ते प्रोचुः, त्वमेवास्मत्स्वामो वर्तसे, तद्भवद्भिर्यत्किंचिदा- 181 दिश्यते, तदेव वयं करिष्यामः. इत्युक्त्वा तैः सर्वेरपि दीक्षा गृहीता. ततस्तैः समं सआईकमारार्षः श्री-15 महावीरं वंदितुं विहारं कुर्वन् राजगृहोपांतस्थोद्याने ययो. तत्र केचित्तापसा एकं महांतं इस्तिनं हत्वा त-16 न्मांसं भक्षयंतस्तिष्टंतिस्म. तारकर्म कुर्वतस्तान् वोक्ष्य स आर्द्रकुमारार्पः प्राह, भो महानुभावाः ' जीव-18 | हिंज कर्तुं न युज्यते, जीवहिंसया हि प्राणिनामधमा गतिर्भवति, यत:-अस्थिन वसति मद्रश्च । मांसे 3 व जनार्दनः ॥ के वसति ब्रह्मा च । तस्मान्मांसं न भक्षयेत् ॥ १॥ तिलसर्पपमानं च। मां तं यो भ येन्नरः । तस्य स्यान्नरके वासो-ऽनंतदुःखप्रदगिनः ॥ २॥ तत् श्रुत्वा ते तापसाः प्रोनुः, वयमेकमेव मतं जीवं हत्वा तन्मांसभक्षगपरा जीवामः, यूयं तु बहूनां धान्यजीवानां हिंसां कृत्व निजाजीविका विपास्यथ. इत्युक्त्वा ते दयाभासवंतस्तापसा एकं महांतं हस्तिनं तरुणा सह बबंधुः. बहुभारलोहशृंख-2॥१८॥ ला बद्धोऽसौ हस्ती तमाईकुमारमुनिमालोक्य जीर्णरज्जुमिव तां शृंखलां त्रोटयित्वा वेगेन वंदितुं चलितः. ॐ एवं वेगेन धादतं तं गजेंद्रं दृष्ट्वा ते सर्वेऽपि तापप्ताः हा! हा! अयं यतिहतो हत इति पुत्कुर्वतस्तत्प- 151 For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobabirtm.org Acharya Shet Kailassagersa Gyanmandir tomis आर्द्रकुमार श्चाद् धाविताः, परं स हस्तो तु तत्र गत्वा तमार्द्रकुमारमुनि ननाफ-तदा आर्द्रकुमारमुनिस्तं हस्तिनं | चरित्रं जगो, भो गजेंद्र ! तर यदि धनें रुचिर्भवेत्तदा जैनधर्ममंगीकुरु? एवं मुनिनोक्तोऽतो पुनस्तं मुनिं प्रण | नाम. मुनिनापि पुनरुक्तं भो गजेंद्र! यदि तवानशनग्रहणेच्छा, तदानशनं गृहाण ? ततस्तेन हस्तिना: नशनं गृहीतं. एवं इस्तिचेष्टितं दृष्ट्वा प्रबुद्धास्ते तापप्ता अपि जीवदया मूलं धर्ममंगीचकुः. अथ श्रेणिककानोऽपि गजशृंखलात्रोटनानशनग्रहणतापसप्रतिबोधादि श्रुत्वा अभयकुमारसहितस्तत्रागतः, भक्त्या च तगार्द्रकुमारमुनि सपरिवारं पुत्रपौत्रादियुतो सो ननाम. ऋषिणापि कल्याणकारिधर्माशिषा स प्रीणितः. ततो मुनिनोपदिष्टं धर्मोपदेशं श्रुत्वा गजा जगाद्, भो महर्षे ! भवदर्शनादनेन हस्तिना बहु भारप्रमाणा लोहशृंखला यत् त्रोटिता, तद्विषये मे मनसि महदाश्चर्य जातमस्ति. मुनिरूचे भो नरेंद्र! एवंविधलोहशें2 खलात्रोटनं तु सुकरं, परं यदामतंतुपोशत्रोटनं मया कृतं, तदेव सर्वसंसारिजीवानां दुष्कर. तत् श्रुत्वा-1 ॥ १९ ॥ 5 ती विस्मितेन राज्ञा पृष्टं, भो मुनींद्र! तमतोवाश्चर्य करं भवदीयामतंतुत्रोटनसंबंध मे श्रावय? इति नृ- 5/1 13 पार्थितेन तेन मुनिना स्वकीयः सकलोऽपि संबंधः सर्वसमक्षं प्रकटीकृय कथितः. तत् श्रुत्वा नृपादयः || CAAAA For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra कुमार चरित्रं । २० ॥ 196-19 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्वेऽपि लोकाश्च मत्कृताः ततः स आर्द्रकुमारमुनिराह, हे राजन् ! अयमभयकुमारो मे परमो बांधवोऽस्ति, येनाहं तत्रानार्यदेशेऽपि श्रीयुगादिजिनप्रतिमाप्रेषणेन प्रतिबोधितः, संसारकर्दमे च पतितोऽहंते न समुद्धृतः एतदाकर्ण्य सोऽयकुमारोऽपि वैराग्यवासितहृदयः श्रेणिकंप्रति प्राह भो तात ! अधुनाहमपि दीक्षां गृहीतुमिच्छामि, तो ममादेशं देहि ? यतो मदीयमित्रेणानेनार्द्रकुमारेण यत्कृतं, तत्कार्य ममापि कर्तुं युक्तं तन्निशम्य श्रेणिकोऽवदत्, भो पुत्र ! त्वयाधुना दीक्षाग्रहणविषये किमपि न वाच्यं तथापि त्वं बलाद् दीक्षां गृही सि, तदा त्वन्मादुर्भद्राया मम च हृदयस्फोटो भविष्यति, तव च मातापित्रोहत्यापापं लगिष्यति तमः सोऽभयकुमारः पितृवचसा गृहवासस्थितोऽपि शुद्धं श्राद्धधर्मं पालयतिस्म. ततः स आर्द्रकुमारमुनिः श्रेणिकाभयकुमारयुतः समवसरणस्थं श्रीवीरजिनेंद्र त्रिः प्रदक्षिणीकृत्य वदतेस्म. वोरप्रभुणापि तस्मै धर्मोपदेशो दत्तः, यथा भो आर्द्रकुमारमुने! भवता शुद्धं चारित्रमाराधनीयं, यतः | शुद्धचारित्राराधनं विना जीवस्य संसारान्मुक्तिर्न भविष्यति, यतो भूरिमनुष्या दीक्षां गृह्णांति, परं श्रुद्धमनसा स्तोका एव पालयंति धर्म एव च परमत्रांधवः, धर्मादेव च स्वर्गापवर्गादि भवति ततस्ते श्रेणि For Private and Personal Use Only ॥ २० ॥ Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir SOSOGIS 00000000 ॥ शत श्रीआईकमाग्नि - साप्तम् ॥ | SIEL余人。 For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org epieci OO OOO ) कादयः सर्वेऽपि श्रीवोरं प्रणम्य यथास्थानं गताः ततः स आर्द्रकुमार मुनिस्तपोऽग्निना सर्व क में धनानि 1) दग्ध्वा केवलज्ञ नमवाप्यायुःक्षयेण मुक्तिपुरीं जगाम. इति श्रीजिनप्रतिमादर्शनफलमाहात्म्योपदर्शने श्रीआद्रकुमारमुनिचरित्रं समाप्तं ॥ श्रीरस्तु ॥ आ ग्रंथ श्री जामनगर निवासी पंडित श्रावक हीरालाल हंसराजे स्वपरना श्रेयमाटे श्री शुभशीलगणीजीए रचेला कथाकोवांथी उद्धरीने तेनो मूलभाषातां वनता प्रयासे सुधारो वागे करोने पोताना श्रीजैनभास्करोदय छापखानामा छापी प्रकियों के. ॥ समातोऽयं ग्रंथो गुरु श्रीमचारित्रविजयप्रसादात् ॥ श्रस्तु ॥ आ ग्रंथना प्रसिद्ध करनारे आ ग्रंथ प्रसिद्ध करवाना तथा छापवाना दरेक हक पोताना स्वाधीनमा राख्ता है. For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Actara Shri Kailasagarsun Gyanmandir For Private and Personal Use Only