________________
Shri Mahavir Jain Aradhana Kendra
आर्द्रकुमार चरित्रं
।। १५ ।।
6
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शक्नोति एवंविधं बालचेष्टितं विलोक्यार्द्रकुमारो दध्यो, नूनं ममास्य पुलस्य मोहोऽद्यापि दीक्षार्थं निवारयति, यतो मयि दीक्षिते अस्य पुत्रस्य पत्न्याश्च का गतिर्भविष्यति ? इति ध्यात्वा मोहाभिभृतेनार्द्रकुमारेणेति निजहृदये निश्चितं, अनेन बालेन यावंतस्तं तवो मदीयपादयोर्वेष्टिताः संति, तावंति वर्षाणि मया गृहवासे एव स्थेयं ततः स आर्द्रकुमारस्तान् तंतूद् गणयामास, सर्वे द्वादश तंतवो जाताः, ततस्तेन श्रीमती प्रियांप्रत्युक्तं, हे प्रिये ! त्वं चिंतां मा कुरु ? अथाप्यहं द्वादश वत्सराणि गृहे एव स्थास्यामि, तदनंतरं नूनं दीक्षां लास्ये. एवं सुतप्रतिबंधेन स द्वादश वर्षाणि गृहे स्थित्वान्येयुरिति दध्यो - भवकूपाद्विनिर्गतुं । व्रतमालंब्य रज्जुवत् ॥ मया प्राप्तं च मुक्तं च । मग्नस्तत्राप्यहं पुनः ॥ १ ॥ मनसैव तं भग्नं । प्राग्जन्मनि ततोऽप्यहं | अनार्यत्वं प्रपन्नोऽस्मि । का गतिः स्यादतः परं ॥ २ ॥ भवत्विदानीमप्यात्त-परिव्रज्यस्तपोऽग्निना ॥ साक्षात्प्रक्षालयिष्ये स्वं । मलिनीभृतहेमवत् ॥ १ ॥ इति ध्यात्वा स आर्द्रकुमारो निजां पत्नी श्रीमतीप्रति प्राह, हे प्रिये ! अथाहं दीक्षां लास्यामि, तदा श्रीमती जगौ, हे स्वामिन्! स्त्री विनाहं कथं भविष्यामि ? पुत्रस्यास्य च का गतिर्भविष्यति ? तदार्द्रकुमारो जगौ हे प्रिये !
For Private and Personal Use Only
।। १५ ।।