________________
Shri Mahavir Jain Aradhana Kendra
आर्द्रकुमार चरित्रं
॥ ३ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| गच्छथ तदा मामापृच्छयैव व्रजथ, यदहमपि तस्मै राजकुमाराय किमपि प्राभृतं प्रेषयितुमुत्सुकोऽस्मि. ओमित्युक्त्वा ते मंत्रिणोऽपि निजस्थानं ययुः अथ स आर्द्रकराजा मनोहरभाजनपानादिभिस्तेषां श्रेणिकमंत्रिणां सर्वदा भूरिसत्कारं करोतिस्म. अथान्यदा स आर्द्रकराजा श्रेणिकभूपप्रेषणयोग्यमणिमुक्ताफलादिवर्यवस्तूनि स्वमंत्रिणे समर्प्य कथयामास, भो मंत्रिन् ! त्वं मगधदेशे राजगृहे नगरे मदीयपरममित्र श्रेणिकनृपपार्श्वे गच्छ ? तस्यैतानि वस्तूनि च मदीयप्रणामपूर्वकं त्वया प्राभृतीकरणीयानि. अथैवं नृपादिष्टः स मंत्री यदा राजगृहंप्रति गंतुं प्रयाणमकरोत्, तदा ते श्रेणिकमविणोऽपि तेनार्द्रकनृपेण सन्मानपुरस्सरं विसृष्टाः संत आर्द्रकुमारपार्श्वे गत्वा निजप्रयाणस्वरूपं निवेदयामासुः तदा प्रमुदितः स आईकुमारोऽपि कोटिमूल्यमणिमाणिक्यमुक्ताफलपट्टकुलादिवर्यवस्तूनि तेभ्यः समर्प्य प्राह, भो मंत्रिणः ! एतानि सर्ववस्तुनि युष्मानिर्मदीयाभिधानपूर्वकं तस्मै अभयकुमाराय समर्पणीयानि, मत्प्रणामपूर्वकं च तस्मै वाच्यं, यदार्द्रकुमारो भवद्भिः सह मैत्रीं कर्तुं वांछति अथ तत्सर्व प्रतिपय ते मंत्रिण आर्द्रभृपमंत्रियुताः शुभे मुहूर्ते राजगृहंप्रति यानारूढाः प्रयाणमकुर्वन् प्रयाणं कर्वतस्ते सर्वेऽपि क्रमेण राजगृहं प्रापुः तत्र
For Private and Personal Use Only
11-3 11