Book Title: Ardrakumar Charitram
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 5
________________ Shri Mahavir Jain Aradhana Kendra भर्द्रकुमार चरित्रं ॥ २ ॥ www.kobatirth.org | धविषयाधिपः श्रेणिको भूपतिर्निजमंत्रिण आर्द्रकद्वीपे आर्द्रकभृपप्रीतिसंपादनार्थं भूरिवर्यप्राभृतसहित प्रीतिलेखयुतान् प्रेषयामास एवं सप्रीतिलेखं भूविर्यप्राभृतं स्वीकृत्यार्द्रकराजापि परमं संतोषं प्राप्य तान् मंत्रिणः पप्रच्छ भो मंत्रिणः । तस्य मद्दन्धोर्मयधेशितुः किं कुशलमस्ति ? ततस्तैर्मंत्रिभिरपि श्रेणिक भूपकुशलतोते निवेदिते नृपपार्श्वे स्थितस्तत्पुत्र आर्द्रकुमारः कृतांजलिर्निंजननकमपृच्छत्, भो तात ! कोऽयं मगधाधिपस्ते सुहृत् विद्यते ? तदा राजावदत्, वत्स ! स श्रेणिकानिधो मगधदेशभुपतिरस्ति, तेन समं ममातीव प्रीतिर्वर्तते पुराव्यात्मीयकुलभूपतिभिः समं तत्रत्यभूपानां प्रीतिरासीत्, एवं कुल क्रमागतायापि सा प्रोतिरविच्छिन्नेव वरिवर्तते एवं निजजनकवचांसि श्रुत्वाऽतीवहृष्टः स आर्द्रकुमारस्तान् श्रेणिकनृपमंत्रिणो निजावासे समाकार्य रहोवृत्त्या पप्रच्छ, भो मंत्रिणः ! युष्माकं तस्य श्रेणिकस्य राज्ञः किं कोऽपि सुतोऽस्ति ? तदा मुख्यमंत्रिणा प्रोक्तं, भो कुमारेंद्र ! तस्य श्रेणिकभूपस्वधियां पात्रं, पंचशतामात्याविपतिरभयकुमाराभिधस्तनयोऽस्ति तत् श्रुत्वा दाक्ष्यदाक्षिण्यनैपुण्यकलाकुशलः स आर्द्रकुमारोऽवदत्, तेनाभयकुमारेण सहाहमपि मैत्रीं कर्तुमिच्छामि. अतो यदा यूयं पश्चाद For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥ २ ॥

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26