Book Title: Ardrakumar Charitram
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobabirth.org
Acharya Shri Kailassagarsun Gyanmandir
चरित्रं
आर्द्रकुमार || मार्गयितुं बहवो वराः समायांति, तदा श्रीमती जल्पतिस्म, यो मुनिर्मया पूर्व वृतः, स एव मम स्वाम। |
भवतु, अन्यथाग्निरेव मम शरणं भविष्यति, कुमारिका कन्या वेकवारमेव परिणयति, यतः॥ १२॥
सकृजल्पंति राजानः । सकृजल्पंति साधवः ॥ सकृत्कन्याः प्रदीयते । त्रीण्येतानि सकृत् सकृत् ॥१ तदा श्रेष्टी निजपुत्रीं प्राह, भो पुत्रि! परं स महर्षिः कथं प्राप्यः? यत एवंविधा महर्षयः क्षणमप्येका नैव तिष्टंति, ते तु अलय इव स्थानात्स्थानं भ्रमंति. ततः सोऽत्र कथमायास्यति? आगतो वा कशमुप लक्षिष्यते? कथं च तस्य नाम ज्ञायते? किमयभिज्ञानं नास्ति, एवंविधा बहवो भिक्षवोऽत्रायांति यांति च, अतः स सम्यग् नैव ज्ञास्यते, तेन त्वं कदाग्रहं मा कुम? यतः-वज्रलेपस्य मूर्खस्य । नारीणां मर्क टस्य च ॥ एकाग्रहस्तु मीनानां । नीलिमद्यपयोस्तथा ॥१॥ तत् श्रुत्वा श्रीमती प्राह, भो पितः! यदाह ।
तस्य मुनेः पादयोलग्ना, तदा मया विद्युद्योतेन गजाकृतिरूवरेखा तस्य पादे दृष्टास्ति, तादृचिह्नयुतं ॥१२॥ । मुनि नूनमहमुपायेन शोधयिष्यामि. तत् श्रुत्वा पित्रा प्रोक्तं, भो पुति! यः कोऽप्युपायस्ते रोचते तं र सुखेन कुरु? एवं जनकेन प्रोक्तया तया श्रीमत्येत्यभिग्रहः कृतः, यथा मया लित्यं चतुभ्यों दिग्भ्योऽत्र
R-RRRRRC
For Private and Personal Use Only

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26