Book Title: Anusandhan 2019 01 SrNo 76
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अनुसन्धान-७६
टी० --- उपनमति - नमस्कुर्वाणो दितिसुतं - दानवं, जेतुं - पराभवितुं, क्रोधान्मणिमधुपकान्तं - माणिक्यभ्रममनोहरं, धनुः - चापं, समादाय - गृहीत्वा, मैनाकं - समुद्रगतपर्वतं, अधोऽध: मैनाकस्य अधोभागे चरति ग-- सति धनुःकोटौ भृङ्गो - भ्रमरः, समभूत्, तदुपरि गिरिः मैनाकः समभूत् ।
जगच्चक्रं चक्रे चरणपरिचर्यैकरुचिनामुना त्वद्दासेन स्वमनसि समन्तान्निगमनम् । त्वदन्यो देवस्त्वां तुलयतु विभो! चेद् भुवि भवेत् धनुःकोटौ भृङ्गस्तदुपरि गिरिस्तत्र जलधिः ॥११॥
___टी० भो विभो! तव चरणपरिचर्यैकरुचिना - पादपूजामुख्यप्रीतित्वात्, त्वदासेन - भवत्सेवकेन, अमुना - मल्लक्षणेन जनेन, स्वमनसि जगच्चक्रं - संसारचक्रं, निगमनं - गमननिर्णयं चक्रे । अन्यो देवः यदि त्वां तुलयति - समीकरोति, चेद् - यदि । धनुःकोटौ भृङ्गो भवेत्, तदुपरि गिरिभवेत् । यथा एवं अपूर्वं भवेत् तथा अन्ये देवाः त्वत्समाना भवेयुरित्यर्थः ।
प्रीतां रूपवती सतीं जिनपतेऽहँल्लक्ष्मिलीलावतीं हित्वा रूपरसोज्झितां रमयसे यन्मुक्तिसीमन्तिनीम् । तन्नूनं भवतापि तीर्थपतिना न्वेतत् स्फुटं निर्ममे युक्तायुक्तविचारणा यदि भवेत् स्नेहाय दत्तं जलम् ॥१२॥
टी० भो अर्हन्! प्रीतां - प्रीतियुक्तां, रूपवती, लक्ष्मिलीलासहितां, -- - मिनीं हित्वा - त्यक्त्वा, रूपरसोज्झितां - सौन्दर्यशृङ्गाररसरहितां, मुक्तिसीमन्तिनी, यद्यस्मात् कारणात्, रमयसे - तया सह प्रीतिं बध्नासि, तस्मात् कारणात्, नूनं - निश्चितं, तु - पुनः, तीर्थपतिना - तीर्थराजेनापि भवता, इदं स्फुटं निर्मि(म)मे । एतदिति किं ? यदि युक्तायुक्तविचारणा - योग्यायोग्यविचारणा भवेत् तर्हि स्नेहाय दत्तं जलं, गत इत्यर्थः ।
इत्थं योगीन्द्रचेतःकमलकमलभूमुक्तिकासारहंसः कल्याणाङ्करकन्दः सममहिमरमामञ्जरीवल्लरीश्रीः । मन्त्रद्रून्मेषबीजं भुवनजनमनोल्लासलीलावसन्तः श्रीपार्श्वः स्यात् समस्यास्तवकुसुमकृताभ्यर्चनोऽभीष्टलब्ध्यै ॥१३॥

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 156