Book Title: Anusandhan 2019 01 SrNo 76
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
जान्युआरी- २०१९
टी० त्वद्दानलीलादलितप्रतापो - भवतः त्यागक्रीडानिर्जितसौभाग्यः, देव! धुकुम्भः - कामघटः, तव शक्ति - प्रभावं आप्तुं भृगोः - पर्वतशिखरात्, पतन् - अधो गच्छन् सन् ठंठमिति नादं - शब्दं करोतीत्यर्थः ।
जनिमहे जिन! ते सवनोदकैः प्रसृमरैरमरेश्वरभूधरे । विदलितेषु नगेषु किलाभवन्नुपरि मौलमधस्तरुपल्लवाः ॥७॥ टी० हे जिन! ते - तव, जनिमहे - जन्मोत्सवे अमरेश्वरभूधरे - सुमेरुपर्वते, प्रसृमरैः - विस्तृतैः, नदीप्रवाहभूतैः सवनोदकैः - स्नात्रजलैः, विदलितेषु ------ नगेषु - वृक्षेषु, उपरि मूलं अभवत्, अधः तरुपल्लवा अभवन् - बभूव(वुः) ।
रसना स्तवने नयनं वदने श्रवणं वचने [च] करा( रो) महने ।
तव देव! विशां कृतिनां सततं रमते रमते रमते रमते ॥८॥ टी० भो देव! कृतिनां - पुण्यवतां, विशां - नराणां, रसना - जिह्वा, तव स्तवने - स्तोत्रे, रमते । नयनं तव वदने - मुखे रमते । श्रवणं वचने रमते । करो - हस्तो, तव महने - पूजायां, सततं नित्यं, रमते - रतिं - प्रीति करोतीत्यर्थः । नयनादौ जातावेकवचनं । सततमिति सर्वत्र योज्यम् ।
विश्वैकनायक! कला नहि या त्वदर्हा. कार्ये न या च कविता भवतः स्तवाय ।
लग्नो न यस्तु विभवो विभवश्च सा किं,
सा किं स किं स किमिति प्रवदन्ति धीराः ॥९॥ टी० भो विश्वकनायक ----- निश्चितं, या कला त्वदर्हाकार्ये - तव पूजाकर्मणि, न भवति, सा कि कला - निपुणता? अपितु न । या च कविता ------ स्तवाय - स्तोत्राय न भवति, सा किं कविता? यो भवो - जन्म, त्वयि न लग्नः, स किं भवः ? जन्म निरर्थकं इत्यर्थः । यो वि ----- त्वयि न लग्न--- र्थमिति धीराः पण्डिता प्रवदन्ति ।
अहीशोऽधस्तात्त्वामुपनमति जेतुं दितिसुतं समादाय क्रोधान्मणिमधुपकान्तं किल धनुः । अधोऽधो मैनाकं चरति जगतीनाथ समभूद् धनुःकोटौ भृङ्गस्तदुपरि गिरिस्तत्र जलधिः ॥१०॥

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 156