Book Title: Anathimuni Charitram
Author(s): Nagchandrajitswami
Publisher: Virchand Lalchand Shah

View full book text
Previous | Next

Page 23
________________ अनाथिमुनि किञ्चिदपि तद्वचनं हृदि धारितवान् / मत्साहीत विचारगशावेवाऽहं त्वभिनिवेश्यासम् / मम मित्रमियन्मां किमर्थ कथयति ? तदहं तदा नाऽवोधम् / प्रान्ते मे सुहृन्मत्सा मुधोषरदृष्टिसदृशविप्रलापेन श्रान्तो मामापृच्छय " हे मित्र ! मयाऽऽवश्यककार्यायाऽधुना ग्रामान्तर गन्तव्यमन्ति ततो मम कियत्कालावधि तव सदनेऽनोगमन भविष्यती" ति स गतः। हे नरेश्वर ! मम सहायके मदन्तिकाद्गते सत्येव सद्यो ममाखिलांडगेऽकाण्ड३ वैक्लव्यं समुत्पन्नम् / अस्थिमध्ये काप्येतादृशा व्यथा समुत्थिता यथा विनोदकं मत्स्य इवाऽहं विचेष्टितुं प्रवृत्तः। क्षणेन पल्यङ्के क्षणेन च भूतलेऽहं लुठितुं लग्नः, पर नाऽहं कापि सुख लेभे। तीक्ष्णसूचीसदृशशस्त्राणि शरीरान्तः कोऽपि प्रहरतीव देहे पीडा जाता / "उत्तमाङ्ग वेदनाऽप्यसह्याऽऽसीत् / सर्वाङ्गेषु विपुलदाहोऽजायत / अचिरेणैव मम वेश्मवासिनः प्रातिवेशिकाः कुटुम्बिनश्च सर्वे सम्मिलिताः। सर्वेऽपि मां परिचरन्तिस्म / केचिद्वैद्यान् केचित्तु मान्त्रिकान्, कतिपयाः- "कालज्ञान् कतिपयास्तु भूतविद आकारयितुं प्रश्नयितुं वा मन्त्रयन्ति स्म / एकैके वैद्यादय आगस सर्वेऽपि चिकित्सितुं प्रवृत्ताः / यदुक्त चरित्रम् 1 अभिनिवेशी-आग्रही / 2 ऊषरवृष्टि क्षारभूमौ वर्षण | 3 आकस्मिकम् / 4 पीडा / 5 मस्तक / 6 उपचार सेवां च कुर्वन्ति / 7 ज्योतिर्विदः / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40