Book Title: Anathimuni Charitram
Author(s): Nagchandrajitswami
Publisher: Virchand Lalchand Shah
View full book text
________________
अनाथिमुनि २७
'चिच्छेद राज्यलोभैः कनकरथनृपः स्वाङ्गजाङ्गानि लुब्ध्वा, निर्लजः सिंहसेनो युगपददहदात्मीयराइयो निशान्ते। वृत्तान्येतानि भूतान्यहह ! पुनरपीहैवमेवोद्भवन्ति,
संसारे स्वार्थवृत्ति हि तनुतनुभृतां कीदृशी दृश्यतेऽत्र ! ! ! ॥१३॥ इयत्काल वह मोहमस्तो भूत्वा वृथैव कालमपास्यमिति ममाऽवबोधो जातः । तूर्णमेवाऽहमचिन्तयं "यदि चेदिदं मम वैक्लव्यमधुना प्रणश्येत्तर्हि मयाऽसारसंसारोपाधींस्त्यक्त्वा साररूपसंयमः सहसा स्वीकरणीय" ! इति । एवं विचार्य रजन्यामहं सुप्तः । एकः स्वप्नो मया दृष्टः । स्वप्ने मम सखा दृष्टिगोचरो जातः तेनोदीरितं "भो मित्र ! प्रबुध्यस्व, प्रबुध्यस्व, त्वमहं चाऽऽवामुभौ देवावाऽऽस्व । गते देवभवे तवाऽऽयु-र्यदा स्तोकमवशिष्टं तदा त्वयाऽहं वृतो, यथा हे सुहृत् ! तवाऽऽयुष्यमद्यापि मत्तोऽधिकतरमवशिष्यतेऽतोऽहमितो मृत्वा मनुष्यो भवामि, मद्दल भवोधित्वेन ता त्वया मम प्रतिबोधार्थ मागंतव्यम् । येन केनाऽपि प्रकारेण मां त्वं प्रतिबोधयेरिति । मयाऽपि तथेति प्रतिश्रुतं यदहं त्वां प्रतिबोधयितुमागमिष्यामि तदेति । किमेष आवयोः सङ्केतो विस्मृतस्त्वया ।
चरित्रम्
१ स्रग्धरा । २ गृहे । ३ गमितवान् । ४ कथितम् । ५ वचन दत्तम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40