Book Title: Anathimuni Charitram
Author(s): Nagchandrajitswami
Publisher: Virchand Lalchand Shah

View full book text
Previous | Next

Page 34
________________ श्री अनाथिमुनि । ३२ तथापि यूयं भोगायाऽऽमन्त्रिता मया, तेन भवदपराधः कृतस्तत्कृतेऽहं भवन्त क्षमयामि, भवतश्चाऽनुपमधर्म मथ श्रोतु मिच्छामो" ति ॥ मुनिनाऽपि ततो महीभृते धर्मबोधो दत्तः। तं श्रुत्वा श्रेणिकमहीपालेनाऽनल्पप्रसन्नताभरेण स धर्मः ससम्यक्त्वः स्वीकृतः । यथा 'देवो जिणिंदो गयरागदोसो, गुरू वि चारित्तरहस्सकोसो। जीवाइतत्ताण य सदहाणं, सम्मत्तमेवं भणियं पहाणं ॥१७॥सम्यक्त्वसप्ततिः॥ - संस्कृतच्छायादेवो जिनेन्द्रो गतरागदोषो, गुरुरपि चारित्ररहस्यकोषः । जीवादितत्त्वानां च श्रद्धानं, सम्यक्त्वमेवं भणितं प्रधानम् ॥१७॥ तदनन्तरं त्रिकृत्व २आदाक्षिण प्रदक्षिणां कृत्वा, वन्दित्वा, नमस्कृस, सत्कृस, सन्मान्य, "कल्याणकारी भवान् !, मङ्गलं भवान् !, दैवतं भवान् !, ज्ञानमूर्तिश्च भवान् !, तस्माद् भो ! "भदन्त ! ५अत्रभवन्तं पर्युपासेऽह" चरित्रम् १ उपजातिः । २ गुरोर्दक्षिणकर्णादारभ्य वामकर्ण पर्यन्तम् । ३ देवस्वरूपम् । ४ पूज्य !। ५ पूज्यम् । AAT३२ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40