Book Title: Anathimuni Charitram
Author(s): Nagchandrajitswami
Publisher: Virchand Lalchand Shah

View full book text
Previous | Next

Page 32
________________ श्री अनाथिमुनि ३० वाऽनाथः । ऋद्धिविलाससाधनानि यानि त्वं मह्यमर्पयितुं भाषसेऽत्र, तेम्योऽप्यभ्यधिकतराणि मया प्राप्तान्यासन्। स्वजनपरिजनमित्रादीन्यप्येतावन्त्येवाऽभवस्तथापि न केनाऽपि मां रोगसन्तापान्मोचयितुं प्राभूयत । अतोऽहं तदाऽनाथीभूत आसम् । हे धराधीश ! बद, दुःखान्मृते व त्राणाय त्वं समर्थोऽसि । अस्मिञ् जगति ज्येष्ठः शत्रु त्युः कर्माणि वा सन्ति, तेभ्यो रक्षितुं नास्ति तव सामर्थ्य मत एव मया "त्वमनाथ" इति कथितम् ॥ किं पुन र्यदि दीक्षितोऽपि सम्यग् न पालयति तदा सोऽप्यनाथ एवाऽस्ति । यदुक्तम्प्रव्रज्य ये पंच महाव्रतानि, न पालयन्ति प्रचुरप्रमादात् । रसेषु यद्धा अजितेन्द्रियाश्च, जिनैरनाथाः कथितास्तएव ॥१४॥प्रा०॥ तेषां साधुता निरर्थका भवत्येव । यतः'निरर्थका तस्य सुसाधुता हि, प्रान्ते विपर्यासमुपैति योऽलम् । १ उपजातिः । २ उपजातिः । चरित्रम् Shree Sudharmaswami Gyanbhandar Umara Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40