Book Title: Anathimuni Charitram
Author(s): Nagchandrajitswami
Publisher: Virchand Lalchand Shah

View full book text
Previous | Next

Page 30
________________ अनाथिमुनि क्व गत ते तदानींतन वैराग्यम् ? । क्व गतं ते तदानींतन ज्ञानम् ? । हे वन्धो ! स एवाऽहं प्रतिश्रोता देवोऽद्य तव समक्ष तृतीयवेलायां समुपस्थितोऽस्मि । एकदा मया त्वया सह मैत्र्यं विहित, तव संसारस्वरूपनिदर्शनार्थ प्रयत्नः कृतः किन्तु त्वमसम्बुद्धः । तदा दुःखकारी सन्नपि ससवस्तुज्ञापकोऽयं द्वितीयोपाय दत्तः। द्वितीयवेलायां वैद्यरूपेण तवाऽग्रे समागतः सोऽप्यहमेव । तव वचननिबद्धोऽहमद्य तृतीयवेलायां स्वप्नावस्थायां तब समागमे समायातोऽस्मि । अधुना संसारस्य स्वार्थभृतसम्बन्धस्योपपलक्षण जातम् ? । यदि चेदपलक्षणं जातं भवेत्तर्हि त्वमथाऽऽत्मसाधनकृते सज्जो भव। कृतैकनिश्चयो भव, येन तवाऽखिलाऽपि रोगातिरंजस।२ प्रणक्ष्यतो"ति॥ अत्राऽन्तरेऽहमजागर, यावच्चाऽपश्य तावदमरस्त्वदृष्टोऽभवत् । मया प्रथमत एव निश्चितमासीत् , परन्तु स्वप्नार्थ विचार्य विशेषेण दृढनिश्चयः कृतो, यथाऽधुना ममैतद्वेदनप्रशमनेन सहैव त्वरित संसारसम्बन्धत्यागः कर्त्तव्य इति ॥ हे नरपालक ! एवं निश्चिते सत्येवाऽऽशु मम पीडा शमितुमारब्धा, तत्काल चैव सुखं निद्राधीनो बभूवाऽहम् ॥ * अपरेछु ३रुषायां यदाऽहं प्रबुद्धस्तदा मनिवासौको५ मम सम्बन्धिभिः परिपूर्णोऽभवत् । मम निद्राभङ्गो १ अवबोधः-विवेकः-भान वा । २ शीघम् । ३ प्रातःसमये । ४ जागृतः । ५ ओकः गृहम् । * द्वितीय दिने । चरित्रम् Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40