Book Title: Agam Sutra Satik 24 Chatusharan PainngSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 9
________________ मू०२ उक्ता चारित्राचारविशुद्धिः, अथ दर्शनाचारविशुद्धिमाहम. (३) सणयारविसोही चउवीसायत्यएण किञ्जइ । अच्छब्भुअगुणकित्तणरूवेण जिनवरिंदाणं ।। पृ. 'दसणे'त्यादि, दर्शनं-सम्यक्त्वंतस्याचारो-निरशङ्कितेत्याद्यष्टविधः तस्य विशोधिनिर्मलता चतुर्विंशतेरात्मनां- जीवानां तीर्थङ्करसम्बन्धिनां स्तवः क्रियते यत्र स चतुर्विंशत्यात्मस्तवो-लोगस्सेत्यादिरूपस्तेन क्रियते, चउवीसाइत्थएणेतिपाठेजिनानांचतुर्विंशत्याः स्तवेनेत्यर्थः, चकारोद्वितीयावश्यकसमुच्चयार्थः, चतुर्विंशतिस्तवेन क्रियते, किंभूतेनेत्याह-'अञ्चमुअ'इत्यादि, अत्यद्भुताः-सर्वातिशायिनो लोकोद्योतकरादयो ये गुणास्तेषां यदुत्कीर्तनं-वर्णनं तद्रूपेण, केषां तदित्याह-जिनवरिंदाणं तिजिना-रागादिजयादुपशान्तमोहादयस्तेषांमध्ये वरा:-केवलिनस्तेषां इन्द्रा इव इन्द्रास्तीर्थङ्करा जिनवरेन्द्रास्तेषामित्यर्थः ।। ___ उक्ता दर्शनाचारविशुद्धिः, इदानीं ज्ञानाचारस्य चारित्राचारदर्शनाचारयोश्च विशेषेण विशुद्धिमाहमू. (१) नाणाईआउ गुणा तस्संपन्नपडिवत्तिकरणाओ। वंदनएणं विहिणा कीरइ सोही उ तेसिंतु॥ वृ. 'नाणाईआ' इति नाणतिझानाचारः-कालविनयाधष्टविधः आदिशब्दाद्दर्शनचारित्राचारग्रहो, ज्ञानदर्शनचारित्रयुक्त एव चन्दनका) नान्यो ज्ञानवानपि पार्श्वस्थादिव्यवहारतः चारित्रवानपि निलवादिरितिज्ञापनार्थः, ज्ञानमादौ येषां ते ज्ञानादिकाः, 'तुः' अवधारणे, एतेन ज्ञानादिका एव गुणा इत्यर्थः, तैनिादिगुणैस्सम्पन्ना-युक्तास्तत्सम्पन्ना गुरवस्तेषां प्रतिपत्तिःभक्तिस्तस्याः करणं तस्मात् तत्सम्पन्नप्रतिपत्तिकरणाद्विनयकरणादित्यर्थः, केन?-वन्दनकेन, कथं? -विधिना-द्वात्रिंशद्दोषरहिततयापञ्चविंशत्यावश्यकविशुद्धतया च, 'तेसिं तु'त्ति तेषांज्ञानाचारादीनां तुः पुनरर्थे चारित्राचारदर्शनाचारयोः प्राकशोधितयोरपि पुनर्विशेषेण शोधि क्रियते इत्यर्थः। उक्ता वन्दनकेन ज्ञानाधाचारत्रयशुद्धिः, सम्प्रति प्रतिक्रमणकायोत्सर्गाभ्यां गाथाद्वयेन तामाहमू. (५) खलियस्स य तेसिं पुणो विहिणा जं निंदणाइ पडिकमणं। तेणं पडिकमणेण तेसिपि य कीरए सोही॥ वृ.स्खलितस्य-व्रतविषयस्यातिक्रमव्यतिक्रमादिप्रकारसंजातापराधस्य तथा तेसिन्ति तेषां-ज्ञानाचारादीनां पुनः प्रतिषिद्धकरणकृत्याकरणाश्रद्धानविपरीतप्ररूपणादिप्रकारसंजातातिचारस्य च विधिना-सूत्रोक्तप्रकारेण 'जं निंदणाई'इति यत्रिन्दनं निन्दना-दुष्टं मयैतत् कृतमिति, आदिशब्दाद्गर्हादिग्रहः, गुरुसाक्षिकमात्मदोषाविष्करणं गर्हा, एवंप्रकारस्खलितस्य यनिन्दनादिकरणं तस्माद्दोषजातान्निवर्तनंत प्रतिक्रमणमुच्यते इति शेषः, प्रतीपंक्रमणं प्रतिक्रमणं इति व्युत्पत्ति, अतः कारणात्तेन प्रतिक्रमणेन 'तेसि पियत्ति न केवलं सामान्यतो व्रतादिविषयापराधानां, किन्तु तेषामपि ज्ञानाचारादीनां क्रियते विशोधि-निर्मलतेति। मू. (६) चरणाइयाइयाणं जहक्कम वणतिगिच्छरवेणं। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45